पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/370

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२८
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

१"स्मृतिभ्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलामः*२वशावेशादभिव्यज्यन्ते ।

 अतश्च व्यवहितानामपि निमित्तेनैमित्तिकभावानुच्छेदादानन्तर्यमेव सिद्धमिति ॥ ९ ॥



[ सूत्रम् ]



तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १० ॥

[भाष्यम् ]

 तासां वासनानामाशिषो नित्यत्वादनादित्वम् येयमात्माशीः ३*मरणं मा नु भूत् भूयासमिति सर्वस्य दृश्यते, सा न स्वाभाविकी ।

[विवरणम् ]

तथा चोक्तम्*४ **ग्राह्योपरक्तः प्रत्ययो ग्राह्यग्रहणोभयाकारनिर्भासः?' इत्यादि । जातिदेशकालव्यवहितेभ्यः संस्कारेभ्यः स्मृतयः , स्मृतिम्यश्च पुनः संस्कारा इत्येवमेते स्मृतिसंस्काराः कर्माशयवृत्तिलाभवशावेशादभिव्यज्यन्ते । कर्माशयस्यापि वृत्तिलाभो देशादिनिमित्तापेक्षयेति प्रतिपादितम्॥

 अतश्च व्यवहितानामपि निमित्तनैमितिकभावानुच्छेदादानन्तर्यमेव ! यादृशः संस्कारस्तादृशी, स्मृतिः । प्रतिनियतव्यञ्जकत्वाच्च तयोर्न विप्रकर्षः कारणम् । यतः कल्पशतव्यवहितादपि संस्कारादेव तुल्यजातीया स्मृतिरिति, आनन्तर्यमेव सिद्धम् ॥ ९ ॥

 इदानीं वासनानामनादित्वेन विपाकनिर्वतकत्वममिदर्शयति-संस्कारस्य चानादित्वमेकैकस्य चासंङ्ख्ययोनिगमनं वैराग्यप्रतिपत्यर्थं प्रतिपादयति- तासामनादित्वं चाऽऽशिषो नित्यत्वात् । तासां वासनानामाशिषो नित्यत्वादनादित्वम् । येयमात्माशीः ‘मरणं मा नु भूत् ? एवमाशीर्वा इति,*भूयासम्' ‘इति सर्वस्य दृश्यते {-सा-न-स्वाभाविकी-स्वरसप्रवृत्ताऽपि निरूढाऽपि ॥


1. स्मृतेश्च 2. वशाद्व्य 3. मा न भूवे 4. अत्र आदर्शकोशे इत उपरेि “सर्वथाप्यस्ति” इत्यादिवाक्यं लिखितम् । तस्यानन्वयात्, 13. पुटेभ्यः पश्चात् लिखितं **ग्राह्योपरक्तः?” इत्यादिवाक्यं योजितम् ॥}}}}