पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/368

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२४
कैवल्यपादः चतुर्थेः

[भाष्यम् ]

 तत इति त्रिविधात्कर्मण:, तद्विपाकानुगुणानामेवेतेि यज्जातीयस्य कर्मणो १'यादृशो विपाकस्तस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति । किंतु दैवानुगुणा एवास्य वासना २अभिव्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥ ८ ॥

[विवरणम्]

अनिष्टाभिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ॥ भवत्य(त्यत्यागिनां)योगिनां प्रेत्य न तु संन्यासिनां क्वचित् ॥ इति ॥

 इतरेषां तु भूतानां जन्मौषधिमन्त्रतपस्सिद्धानामन्येषां च त्रिविधं शुक्लं कृष्णं मिश्रं च पूर्वमिव यथा द्वितीये पादे 'क्लेशमूल: इत्यादौ ॥ ७ ॥

 कैवल्यस्य प्रस्तुतत्वात् तस्य च प्रतिबन्धहेतवः क्लेशाः, कर्माणि, वासानाश्च, [व्याख्यातव्याः] ।। क्लेशानां तु व्यापारः, प्रतिपक्षः, निवृत्तिश्च तेषां, विस्तरेण व्याख्याताः । एवं कर्मणामपि वासनानां तुल्यव्यापारावस्थानप्रतिपक्षनिवृत्तयो निर्वर्णनीया इत्यत उत्तराणि सूत्राण्यारभ्यन्ते-यतस्तन्निवृत्तौ कैवल्यमुपपद्यते नान्यथा । ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥

 ततः तस्मात् त्रिविधात् उक्त्तलक्षणात् कृष्णशुक्लविमिश्ररूपात् कर्मणः प्रविपच्यमानाद्धेतुभूतात् तद्विपाकानुगुणानां तस्यैव कर्मणो विपाकः फलं तदनुगुणानां तदनुरूपाणां तादृशीनाम् एव वासनानामभिव्यक्तिः ॥

 एतदुक्तं भवति-देवतिर्यङ्मनुष्यविपाकहेतुषु कर्मसु मध्ये यञ्जातीयस्य कर्मणो यादृशो विपाकः तस्य विपाकस्य अनुगुणा वासनाः तत् कर्मविपाकमनुशरेते अनूत्पद्यन्ते, तासामेवाभिव्यक्तिः । तत्सदृशेन कर्मविपाकेन संस्कृतत्वात् । यथा मातृसदृशीं प्रविलोक्य वत्सोऽनुधावति । नान्यासामतदनुगुणानामभिव्यक्तिः ॥

 न हि दैवं कर्म विपच्यमानं फलाभिमुखीभावमापद्यमानं नारकतिर्यङ्मनुषवासनाभिव्यक्तिनिमित्तं(सं]भवति । निमित्तनैमित्तिकयोः प्रतिनियतानुगुणत्वात् । किं तु दैवानुगुणा एवास्याभिव्यज्यन्ते । नारकतिर्यङ्मानुषेष्वेवं समानश्चर्चः समाधिः ॥


1. यो वि- 2 ब्यज्य- 3. यो. सू- पा 2. सू. 12