पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/366

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२३
कैवल्यपादः चतुर्थेः

 अथ तु भवत्पक्षे नित्यमेव कुर्वीत, न जन्ममरणे प्रवर्तेयाताम् । कुर्वत एव ते भवतो नाकुर्वतः । तस्मान्निमित्तत्वमवगम्यते । किं च---येन जन्ममरणमारप्स्यते स्वर्गादौ तत् कर्म यदि जन्मान्तरगतं, तत्रानिर्मोक्षप्रसङ्गः । । काम्यप्रतिषिद्धाक्रियायामपि पूर्वजन्मकृतफलस्यावश्यप्रापणीयत्वात् ॥

 अथ प्राक्तनजन्मकर्मक्षयार्थानि नित्यानीति चेत्-तन्न-नियमानुपपत्तेः । अनिष्टफलान्येवारब्धकार्योणि पूर्वकर्माणि, न त्विष्टफलानीति नि}- नियन्तुं शक्यते । अदृष्टफलेषु हि सत्सु नित्यान्येव कुर्वतोऽपि मोक्षानुपपत्तिर्जन्मारम्भित्वं च ॥

 तत इष्टानामप्युभयहेतुत्वं सिद्धम् । बाह्यसाधनानां कर्मणां पीडानुग्रहरूपत्वात् । न वै खल्वपि नित्येन पूर्वकृतकर्मणामिष्टानां ज्योतिष्टोमादीनां निवृतिरुपकल्पते । विरोधाभावात् । अविरोधश्चोभयेषां शुद्धिरूपत्वातू । तन्त्रसिद्धेश्च ॥

 अथापि ब्रूयादे(दने)कजन्मारब्धानेि कर्मणि जन्मै(कै)कमारभन्ते, नानारब्धकार्यमवशिष्यत इति । तथाऽपि पूर्वजन्मकर्मण इदानीन्तनजन्मफलदानेन क्षयङ्गतत्वादधुनातनजन्मनिष्पादितानामभिनवानामेव काम्यानां स्वर्गफलजन्ममरणदुःखारम्भित्वमिति शुक्लकृष्णरूपापत्तिः ॥

 ततश्च जन्ममरणदुःखस्य स्वर्गाभिधानायाः प्रीतेश्च " दर्शनात् तत्कारणस्य द्विरूपत्वमनुमास्यामहे । तथा च सिद्धे प्रतिषिद्धभूतहिंसाचरणं क्रत्वर्थमप्यग्नीषोमीयादौ प्रवर्तमाने कृष्णरूपामित्यनुमास्यामहे । क्रत्वर्थापि सती हिंसा अनिष्टभूतैव तदर्थतां प्रतिपद्यते ॥

 यदुक्तम्-अविशेषेण यच्छास्त्रं शिरोवदिति चोत्तरमिति, तत्र शिरेवदित्येवंजातीयकदृष्टन्तासिद्धत्वम् । अविशेषेण यच्छास्त्रमिति तु होमस्वरूपस्य विरोधाद्वाध्यबाधकत्वमुपपद्यते । हिंसायास्तु विरोधाभावादुभयोर्हेतुत्वं भोजनस्येव सुखशरीरस्थितिद्वयहेतुत्वम् । यथा च तीर्थस्नानस्य ह्रादादृष्टार्थत्वं तथा हिंसाऽप्यनिष्टफलत्वमपरित्यजन्ती महाफलं क्रतुं नैव नाभिनिर्वर्तयति ॥

 अथ बाह्यसाधनसाध्यमपि नित्यं केवलं कामसंयोगाभावाच्छुक्लमेवेति चेदेवमुच्यते-न-दोषवत्त्वेन नित्यकाम्यानामविशेषात्। यथा कामिनः काम्यानीति कामसंयोगेन काम्यानां दोषवत्वमेवं कामादिहेतुभूतविद्यादोषवत्त्वमविशिष्टमिति नित्यानामप्युभयात्मकत्वमेव । अविद्यावत्त्वं च नित्येषु प्रवृत्तस्य प्रायश्चित्तनिमित्तोत्पत्तेरवश्यंभावित्वात् ॥