पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/365

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
पातक्लयोगसूत्रभाध्यविवरगे



[भाष्यम् ]

यतः-

[सूत्रम् ]

कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् ॥ ७ ॥

[भाष्यम् ]

चतुष्पदी खल्वियं कर्मजातिः । कृष्णा, शुक्लकृष्णा, शुक्ला,अशुक्लाकृष्णा

[विवरणम् ]

 कुत एतयोगिन एव न कर्माशयः ? इतरेषां स्वस्तीति । यतः कर्माशुक्लाकृष्णं योगिनस्त्रिविधमितरेषाम् । सिद्धासिद्धसामान्याविषयमिदं सूत्रम् ॥

 ननु च पूर्वसूत्रमपि सामान्यविषयमेव । न । समाधेिसिद्धिस्तुल्यर्थत्वात् । सामान्यविषयत्वे तु समाधिसिद्धिस्तुतिरनुपपन्ना स्यात् । सिद्धिपरिसंख्यानेन तु विशेषविषयत्वे, तुल्यजातीयजन्मादिसिद्विचतुष्टयसावद्यत्वसंकीर्तनात् समाधिसिद्धेः स्तुतिरुपपद्यते॥

 किं च, जन्मादिसिद्धिसाधनानां कैवल्यार्थताप्रतिषेधश्चार्थादिति विशिष्टविषयमेव पूर्वसूत्रम् । इदं तु सामान्यविषयमेव पूर्वसूत्रहेतुत्वेनोपादानात् ॥

 चतुष्पदी खल्वियं कर्मजातिः । कृष्णा दुरात्मनां शास्त्रमार्गातिवर्तिदुष्टचेतसामशुद्धतरा । या तु बाहिस्साधनसाध्या जायापुत्रपशुयाजकादिनिष्पाद्या सा शुक्लकृष्णा । काsसौ * यत्र [पर]पीडाऽनुग्रहद्वारेण कर्माशयप्रचयः सा क्लेशबाहुलकनिष्पादनीयत्वात् कृष्णा च शुक्ला च ॥

 ननु ज्योतिष्टोमादिकर्मशास्त्रसमधिगतत्वान्न कृष्ण, शुक्लमेव तु तत् । अत्रोच्यते-न-काम्यैरनैकान्तिकत्वात् । तान्येव चार्थानर्थोभयकारणानेि । अथ तत्फलस्य स्वर्गादेराभिमतत्वादर्थत्वमेवेति चेन्न-परदाराभिमर्शनस्यापि वाञ्छितत्वादर्थत्वप्रसङ्गात् ॥

 अथ परदाराभिसरणादावभ्युग्रदोषसम्पातात्, प्रतिषिद्धत्वाश्च रागादिनियोगप्रवृतेश्वासमानमिति चेन्न-तत्रापि समानत्वात् । कामात्मतानिषेधादनिष्टयोगश्च । जन्ममरणयोरभ्युग्रदोषभूतयोरवश्यंभावित्वादिष्टानिष्टद्वयहेतुत्वमेब ।। स चानिष्टयोगः परपीडादेरित्यवसीयते । तत्प्रतिषेधोपपत्तेः ॥

 अवश्यं हि जन्ममरणद्वयेन विना स्वर्गादिफलमुपभोक्तुं न शक्यम् । तच्चेदस्ति तस्य दुःखरूपत्वादायातं तहिं ज्योतिष्टोमादीनामुभयात्मकत्वम् । अथ कर्मान्तरमेव प्रतिषिद्धं जन्ममरणारम्भकारणमिति चेन्न-तद्भावभावित्वात् । तस्मिन् हि सति जन्ममरणभावात् ॥