पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/363

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२०
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]



तथा धर्मों निवृतिमात्रे कारणमधर्मस्य शुद्धयशुद्धयोरत्यन्तविरोधात्, न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति । अत्र नन्दीश्वर१'प्रभृतयः उदाहार्याः । विपर्यंयेणाप्यधर्मो धर्मं बाधते । ततश्चाशुद्धिपरिणाम इति । तत्रापि नहुषाजगरादय उदाहार्या: ॥ ३॥  यदा तु योगी बहून्कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्त्यथानेकमनस्का इति-

[ सूत्रम् ]

 निर्माणचित्तान्यस्मितामात्रात् ॥ ४ ॥



[ भाष्यम् ]

 अस्मितामात्रं चितकारणमुपादाय निर्माणचित्तानि करोति, ततः २*सचित्ताः भवन्तीति॥ ४ ॥

[ विवरणम् ]

 तथा धमाँ निवृतिमात्रे कारणमधर्मस्य। अधर्मोंऽपि धर्मस्य । शुद्धयशुद्धयोरत्यन्तविरोधात् । न तु प्रकृतिप्रवृत्तौ धर्मो हेतुर्भवतीति ॥

 अत्र नन्दीश्वरप्रभृतय उदाहार्याः । विपर्ययेणा[प्यjधर्मो धर्मं बाधते । ततश्चाशुद्विपरिणाम इति । अत्रापि नहुषादय उदाहार्याः ॥ ३ ॥

 यदा तु योगी बहून् कायान्निर्मिमीते, तदा किमेकमनस्कास्ते भवन्ति, अथानेकमनस्का इति समाधिसिद्धौ कश्चिदनुक्तो विशेष उच्यते-निर्माणचित्तान्यस्मितामात्रात् । सोऽहंकारं चित्तकारणमुपादाय निर्माणचित्तानि निर्मितानि-चित्तानि-अप्राकृतानीश्वरचित्तानि नवानि करोति योगी । चित्तग्रहणमुदाहरणमात्रम् । इन्द्रियाण्यप्यस्मितामात्रादेव ! ततः ते सचित्ताः सकारणांश्च भवन्ति ||

 चित्तेन्द्रियाभावे च मृतदेशीयः कायो निरर्थकः स्यात् । एकचित्तत्वे तु गुणप्रधानभावः प्रवृत्तिभेदेश्च नोपकल्पते । तत्र विभुत्वादेकक्षेत्रज्ञत्वेऽपि बृहुकायारम्भत्वमुपपद्यते । गुणप्रधानानेकप्रवृत्तिभेदार्थं तु करणभेद एषितव्यः ॥  केचित्तु क्षेत्रज्ञा अप्यन्ये प्रतिकायभेदं भवन्तीति मन्वते । केचिदत्र चोदयन्ति अकृताभ्यागमम् । अन्ये तु तदनुरूपोपार्जितकर्माणः क्षेत्रज्ञा भवन्तीति परिहारमाहुः ॥ ४ ॥


1. रादय; 2. सचित्तानि