पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/362

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
कैवल्यपादः चतुर्थः

[भाष्यम् ]

 न हि धर्मादि निमित्तं प्रयोजके प्रकृतीनां भवति । न कार्येण कारणं प्रवर्त्यत इति । कथं तर्हि? वरणभेदस्तु ततः क्षेत्रिकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात्केदारान्तरं पिप्लावयिषुः समं निम्नं निम्नतरं वा नापः पाणिनाऽपकर्षति, आवरणं 'तु तासां भिनत्ति । तस्मिन्भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति, तथा धर्म: प्रकृतीनामावरणमधर्मं भिनत्ति, तस्मिन्भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लावयन्ति । यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान्भौमान्वा रसान्धान्यमूलान्यनुप्रवेशयितुं, किं तर्हि ? मुद्गतिन्दुक*२गवीथुकश्यामाकादिस्ततोऽपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति,

[ विवरणम् ]

प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् । न हि धर्मादिनिमित्तं प्रयोजकं प्रकृतीनाम् । कस्मात् ? न हि कार्येण धर्मादिना निमित्तेन कारणं कार्यकरणप्रतिरूपं प्रवर्त्यते ।

 कथं तर्हि? वरणभेदस्तु ततः धर्मादिनिमित्तात् भवति । क्षेत्रकवत् । यथा क्षेत्रिकः केदारादपां पूर्णात् केदारान्तरं पिप्लावयिषुः नापः पाणिना अपकर्षति । आवरणं तु तासां भिनत्ति । तस्मित् भिन्ने स्वयमेवाऽऽपः केदारान्तरमाप्लावयन्ति ॥

 तथा धर्मः प्रकृतीनामावरणमधर्भं भिनत्ति । धर्ममधर्मोऽपि /भिनत्त्यावरणम् । तस्मिन् भिन्ने स्वयमेव प्रकृतयः स्वं स्वं विकारमाप्लाव यन्ति पूरयन्ति ॥

 यथा वा स एव क्षेत्रिकस्तस्मिन्नेव केदारे न प्रभवत्यौदकान् भौमान् वा रसान् धान्यमूलान्यनुप्रवेशयेितुम् । किं तु मुद्भतिन्दुकगवीथुकश्यामाकादीन् तस्मात् धान्यमूलात् अपकर्षति । अपकृष्टेषु तेषु स्वयमेव रसा धान्यमूलान्यनुप्रविशन्ति ॥


1. त्वासf 2. गवेधुक