पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/361

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१८
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम् ]

मन्त्रैराकाशगमनाणिमादिलाभः । तपसा संकल्पसिद्धिः, कामरूपी यत्र*१ कामगमन इत्येवमादिः ! समाधिजाः सिद्धयो व्याख्याताः ॥ १ ॥

 तत्र कायेन्द्रियाणामन्यजाति'२परिणतानाम्



[ सूत्रम् ]



जात्यन्तरपरिणामःप्रकृत्यापूरात् ॥ २ ॥



[ भाष्यम् ]

 पूर्वपरिणामापाये उत्तरपरिणामोपजनस्तेषामपूर्वावयवानुप्रवेशेन'३ भवति । कायेन्द्रिय कृतयश्च स्वं स्वं विकारमनुगृह्वत्यापूरेण धर्मादिनिमित्तमवेक्षमाणा इति ॥ २ ॥



[सूत्रम् ]

निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत्॥३॥



[विवरणम् ]

सोमामलकादिभक्षणेन पूर्वदेहानपनयेनैव । मन्त्रैः उपजप्यमानैः आकाशगमनादि । तपसा संकल्पसिद्धिः कामरूपी यत्र कामगमन इत्येवमादिः । समाधिजाः सिद्धयः पूर्वमेव व्याख्याताः ॥१॥

 तत्र सिद्धिः कार्यकरणानामुत्कर्षः । जन्मसिद्धौ तु पतितपूर्वोपार्जित- कार्यकरणस्य_शरीरान्तरमुपादायेिष्यत इति नास्ति_तत्र_संशयः।__अपतितशरीरस्य तु जात्यन्तरपरिणामे किं तदेव कार्यकरणमुपादानमुतान्यदपीति-- तत्र कार्येन्द्रियाणामन्यजातिपरिणतानां-जात्यन्तरपरिणामः प्रकृत्यापूरात् ॥

 पूर्वपरिणामापाये समवस्थितानामेव पूर्वकार्यकरणानामु उत्तरपरिणामोप-- - जनः अपूर्ववयवानुप्रवेशेन भवति । कस्मात् ? अल्पपरिमाणस्योपादानस्य महापरिमाणकार्यांनुपपतेः । न_हि_दशपलात्तपनीयपिण्डादशीतिपला पत्री जनिष्यते ?

 कायेन्द्रियप्रकृतयः स्वं स्वं विकारं कायमिन्द्रियं वा अनुगृह्वन्त्यापूरेण धर्मादिनिमित्तम् आदिग्रहणादधर्ममपि निमित्तम् अपेक्षमाणाः ॥

 धर्मादिनिमित्तमपेक्षमाणाः स्वं स्वं विकारमनुगृह्णन्ति इत्युक्तम् । तत्र किं धर्मादिनिमित्तं प्रकृतीनां प्रयोजक, किं वा नेति, तदाह-निमित्तमप्रयोजकं


1. यत्रतत्र 2. जातीय 3. शाद्भ