पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/357

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१४
पातञ्जलयोगसूत्रभाष्याववरणे



[ भाष्यम् ]

योगिबुद्धिगम्य एवेति । अत उक्तं-मूर्तिव्यवधिजातिभेदाभावान्नास्ति मूलपृथक्त्वमिति वार्षगण्यः ॥ ५३ ॥

[ सूत्रम् ]

 तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४ ॥

[ भाष्यम् ]

 तारकमिति स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । सर्वविषयं, नास्य किंचिदविषयीभूतमित्यर्थः ॥

[ विवरणम् ]

 यदा पूर्वः परमाणुरुत्तरपरमाणुरूपेण परिणमते, पूर्वपरमाणुरूपेण चोत्तरः, तत्रावस्थितान्त्यविशेषाभावाद्विवेकप्रतिपत्तिरनुपपन्ना । तत्रावश्यं क्षणतत्क्रमसंयमजनितविवेकज्ञानादेव संप्रतिपत्तिः । अनित्याश्च परमाणव इति ह्युक्तम् । तस्मात् क्षणभेदस्तु योगिबुद्विगम्य एव ॥
 तथा चानित्यत्वस्य परमाणूनामाचार्यान्तरमतप्रतिपादनद्वारेण प्रसिद्धिं दर्शयति--अत उक्तम्-मूर्तिव्यवधिजातिभेदाभावात् नास्ति मूल(जाति)- पृथक्त्वमेति वार्षगण्यः । यथा प्रतिक्षेत्रज्ञं प्रधानबुहुत्वं न्यायविरुद्धं मूर्तिव्यवधिजातिभेदाभावात् प्रधानाना पृथक्त्वम् एकपुरुषार्थदृश्यवत् अनुपपन्नम्, एवं परमाणूनामपि मूलत्वे पृथक्त्वं नोपकल्पते । ततश्च एकं मूलमिति प्राप्तम् । न परमाणुभेदो हि नित्यो युक्तः । परमाणूनां च मूर्तत्वात् रूपादिमत्त्वाच्च अनित्यत्वम् घटादिवदेवेति ॥ ५३ ॥
 तारकं सर्वविषयं सर्वथाविषयम् अक्रमं चेति विवेकजं ज्ञानम् । काष्ठाप्राप्तं ज्ञानं देवर्षिगन्धर्वादीनाम्। १'तारकमिति। विवेकजमिदमुच्यते स्वप्रतिभोत्थमनौपदेशिकमित्यर्थः । नान्येनोपदेष्टुं शक्यं, नाप्युपदेशेन यथावत् ग्रहीतुं शक्यते । यस्मात् तत् सर्ववस्तुविषयम् । नास्य किंचिदविषयीभूतम् ।


1. अत्र आदर्शकोशे इत उपरि *दिव्यं रूपम्? इत्यादि वाक्यं लिखितम् । तस्यानन्वयात्, 4. पुटेभ्यः पश्चात् लिखितं 'तारकमिति । विवेकजं” इत्यादि वाक्यं योजितम् ॥