पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/355

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

तस्य विषयविशेष उपक्षिप्यते‌ --

[ सूत्रम् ]

जातिलक्षणदेशैरन्यताऽनवच्छेदात् । तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥

[ भाष्यम् ]

 तुल्ययोर्देशलक्षणसारूप्ये जातिभेदोऽन्यताया हेतुः, गौरियं वडवेयमिति । तुल्यदेशजातित्वे लक्षणमन्य१'त्वावच्छेदकरं, कालाक्षी गौः स्वस्तिमती गौरिति । द्वयोरामलकयोर्जातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः, इदं पूर्वमिदमुत्तरमिति । यदा तु पूर्वमामलकमन्यव्यग्रस्य ज्ञातुरुत्तरदेश उपावर्तते, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति प्रविभागानुपपत्तिः । असंदिग्धेन च तत्त्वज्ञानेन भवितव्यमित्यत इदमुक्तं, ततः प्रतिपत्तिर्विवेकजज्ञानादिति ॥

[ विवरणम् ]

 तस्य विवेकजस्य ज्ञानस्य कीदृशं ज्ञेयमिति तस्य विषयविशषः उपक्षिप्यते-जातिलक्षणदेशैरन्यतानवच्छेदात् तुल्ययोस्ततः प्रतिपत्तिः । [तुल्ययोर्देशलक्षणसारूप्ये] जातिभेदः पदार्थानाम् अन्यतायाः अन्यत्वावच्छेदस्य हेतुः । यथा-गौरियं बडवेयमिति ॥  यत्र जातिभेदो नास्त्येकैव जातिः, तत्र तुल्यजातित्वे लक्षणं लिङ्गम् अन्यत्वावच्छेदकरम्-कालाक्षी गौः, स्वस्तिमती गौरिति ।

 यत्र न जातिभेदो नापि लक्षणभेदस्तत्र देशभेदोऽन्यत्वावच्छेदहेतुः । यथा-द्वयोरामलकयोजातिलक्षणसारूप्ये देशभेदोऽन्यत्वकरः इदं पूर्वम् आमलकम् इदमुत्तरमिति ॥

 यदा तु पूर्वमामलकम् अन्यव्यग्रस्य समाकुलितचित्तस्य ज्ञातुरुत्तरदेश उपावर्तते पूर्वदेशे चोत्तरं, तदा तुल्यदेशत्वे पूर्वमेतदुत्तरमेतदिति तुल्ययोः प्रविभागानुपपत्तिः | असन्दिग्धेन तत्त्वज्ञानेन भवितव्यं, ज्ञेयस्य विद्यमानत्वादेकरूपस्य इत्यत इदमुक्तं ततः प्रातिपत्तिर्विवेकज्ञानादिति । क्षणतत्क्रमसंयमापादितविवेकजन्मनो ज्ञानात् प्रतिपत्तिरिति ॥


1. -त्वकरं