पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/350

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०७
विभूतिपादः तृतीयः

[ भाष्यम् ]

  तदेषां गुणानां मनसेि कर्मक्लेशविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे पुरुषस्याऽऽत्यन्तिको गुणवियोगः कैवल्यं, तदा स्वरूपप्रतिष्ठा चितिशक्तिरेव पुरुष इति ॥ ५० ॥

[ सूत्रम् ]

स्थान्युप(नि)मन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात् ॥५१॥

[ भाष्यम् ]

 चत्वारः खल्वमी योगिनः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी' प्रवृत्तज्योतिः प्रथमः । ऋतंभरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः सर्वेषु भावितेषु भावनीयेषु कृतरक्षाबन्धः कर्त२°व्यतासाधनवान् ।

[ विवरणम् ]

 तदेषां गुणानां मनसि क्लेशकर्मविपाकस्वरूपेणाभिव्यक्तानां चरितार्थानां प्रतिप्रसवे प्रलये पुरुषस्यात्यन्तिको गुणवियोगः कैवल्यम् । तदा स्वरूपप्रतिष्ठा चितिशक्तिेरेव पुरुषः । तद्वैराग्यादपि इत्यापिशब्दादप्राप्तयोगैश्वर्यस्यापि सम्यग्दर्शनात् कैवल्यमिति ॥ ५० ॥

 स्थान्युपमन्त्रणे सङ्गस्मयाकरणं पुनरनिष्टप्रसङ्गात्। स्थानं स्वर्गादिकं येषान्ते स्थानिनो देवा इन्द्रादयः । तै: उपमन्त्रणं भो भो इहोष्यताम् इत्यादि । तस्मिन् सत्यात्मनो हीनत्वं स्मरतः प्राप्नुतः सङ्गस्मयौ। (अर्थादिति) तौ च न कर्तव्यो । सङ्गस्मयकरणेऽनिष्टं प्रसज्येत ।। *

 चत्वारः खल्वमी योगिनः-प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिः अतिक्रान्तभावनीयश्व । तान् क्रमेण व्याचष्टे-तत्राभ्यासी अभ्यसनशील: प्रवृत्तज्योतिः ज्योतिष्मत्यादीनामन्यतमा प्रवृत्तिः प्रवृत्ता यस्य स प्रवृत्तज्योतिः प्रथमः ॥

 ऋतम्भरप्रज्ञो द्वितीयः । भूतेन्द्रियजयी तृतीयः । स तु सर्वेषु भावितेषु भावनीयेषु साक्षात्कृतेषु जितेषु च कृतरक्षाबन्धः, उपात्तस्य हि रक्षा विधानीयां, भावनीयेषु साक्षात्करणीयेषु कर्तव्यतासाधनवांश्च । कर्तव्यतायाः साधनानि कर्तव्यतासाधनानि अभ्यासवैराग्यादीनि यस्य सः कर्तव्यतासाधनवान् ॥


1. प्रवृत्तमात्रज्यो- 2. व्यसाधनादिमान्