पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/348

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३०५
विभूतिपादः तृतीयः

[ सूत्रम् ]

ततो '१मनोजवत्वं विकरणभावः प्रधानजयश्च॥ ४८ ॥

[ भाष्यम् ]

 कायस्यानुत्तमो गतिलाभो मनोजवत्वम् । विदेहानामिन्द्रियाणामभिप्रेतदेशकालविषयापेक्षो वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं प्रधानञ्जयः, इत्येतास्तिस्रः सिद्धयो मधुप्रतीका उच्यन्ते । एताश्च करणपञ्च°२ स्वरूपजयादधिगम्यन्ते ॥ ४८ ॥

[ सूत्रम् ]

  सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्र्वं सर्वज्ञातृत्वं च ॥ ४९ ॥

[ भाष्यम् ]

  निर्धूतरजस्तमोमलस्य बुद्धिसत्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य सत्त्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् ।

[ विवरणम् ]

 ततो मनोजवत्वं विकरणभावः प्रधानजयश्च । तत इन्द्रियजयात् • कायस्यानुत्तमः न विद्यतेऽस्मादुत्तम इत्यनुत्तमः गतिलाभो मनोजवत्वम् । विदेहानां शरीरनिरपेक्षाणां इन्द्रियाणां अभिप्रेतदेशापेक्षोऽभिप्रेतकालापेक्षोऽभिप्रेतशब्दादिविषयापेक्षश्च वृत्तिलाभो विकरणभावः । सर्वप्रकृतिविकारवशित्वं अष्टानां प्रकृतीनां तद्विकाराणां च वशित्व प्रधानजय इत्येतास्तिस्रः सिद्धयो मधुप्रतीकाः इति उच्यन्ते । ताश्च पञ्चस्वरूपजयादधिगम्यन्ते ॥ ४ ८ ॥

 सत्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च । सर्वप्रकारेण सर्वसाधनेन निर्धूतरजस्तमोमलस्य सत्वस्य परे वैशारद्ये स्वच्छे स्थितिप्रवाहे परे वर्तमानस्य परस्यां वशीकारसंज्ञायां ज्ञानप्रसादमात्रे निरतिशये वर्तमानस्य सत्वपुरुषान्यताख्यातिमात्ररूपप्रतिष्ठस्य सर्वभावाधिष्ठातृत्वम् । सर्वस्य वस्तुजातस्येष्टे ॥


1. -जवित्वं 2. -रूप 39