पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/342

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विभूतिपादः तृतीयः *२९९

         (भाष्यम् ]
   १भेदाभेदो विवक्षितः । आम्राणां वनं ब्राह्मणानां संघ आम्रवणं ब्राह्मणसंघ इति ॥

स पुनर्द्विविधो युतसिद्धावयवोऽयुतसिद्धावयवश्च ! युतसिद्धावयवः समूहो वनं संघ इति । अयुतसिद्धावयवः संघातः शरीरं वृक्षः परमाणुरिति । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमेित्युक्तम् ॥ अथ किमेषां सूक्ष्मरूपम् ? तन्मात्रं भूतकारणं, तस्यैकोऽवयवः परमाणुः सामान्यविशेषात्माऽयुतसिद्धावयवभेदानुगतः समुदाय इत्येवं सर्वतन्मात्राण्येतत्तृतीयम् । N [ विवरणम् ] तयोः भेदाभेदो विवक्षितः आम्राणां वनम् इति । आम्राणामिति भेदेन विवक्षा । वनमेित्यभेदेन । ताभ्यां द्वाभ्यां भेदाभेदाभ्याम्। आम्राणां वनमिति षष्ठी प्रथमा । तद्द्वयोर्विवक्षित एकः समूह इति । स पुनर्द्विविधः समूहः--युतसिद्धावयवोऽयुतसिद्धावयवश्च । युतसिद्धावयवः पृथक्सिद्धावयवः समूहो वनं सङ्घ इति । अयुतसिद्धावयवः अपृथक्सिद्धावयवः सङ्घातः शरीरं वृक्षः परमाणुरिति ॥ परमाणूनामपि सावयवत्वं सत्त्वादिकार्यत्वात् मूर्तत्वाच्च घटादिवदेव । अयुतसिद्धावयवभेदानुगतः समूहो द्रव्यमिति पतञ्जलिः । एतत्स्वरूपमित्युक्तं सामान्यविशेषात्मकम् । अथ किमेषां सूक्ष्मं रूपम् इति । तन्मात्रं भूतकारणम् । अनेकपरमाणुप्रारब्धत्वात् तस्य तन्मात्रस्य एकोऽवयवः परमाणुः । सोऽपि सामान्यविशेषात्मा अयुतसिद्धावयवभेदानुगतः समुदाय इति । एवं सर्वतन्मात्राणि । ततश्च तन्मात्राणि विशेषविनिर्मुक्तानि तदवयवाश्च परमाणव इति एतत् भूतानां तृतीयं सूक्ष्माख्यं रूपं संयमस्य विषय इति । तन्मात्रारब्धत्वाच्च सावयवमाकाशमनित्यं च । न च शब्दव्यतिरेकेण आकाशं नाम द्रव्यम् उपलब्धुं शक्यम् । धर्मधर्मिणोरभेदात् ॥ !, स चं भेदाभेद-