पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/337

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९४ पातञ्जलयोगसूत्रभाष्यविवरणे

              [ भाष्यम् 1
प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात्समानश्चाऽऽनाभिवृत्तिः। अपनयनादपान आपादतलवृत्तिः । उन्नयनादुदान आशिरोवृत्तिः । व्यापी व्यान इति । एषां प्रधानः प्राणः । उदानजयाञ्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च प्रायणकाले भवति । तां १'वशीकृत्य प्रतिपद्यते ॥ ३९ ॥
                  [ सूत्रम् ] 
 समानजयाज्वलनम् ॥ ४० ॥
              [ भाष्यम् ] 
  जितसमानस्तेजस उपध्मानं कृत्वा ज्वलयति ॥ ४० ॥ 
                 (सूत्रम्]
 श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥
            [ भाष्यम् ] 

सर्वश्रोत्राणामाकार्श प्रतिष्ठा २शब्दानां च ।

          [ विवरणम् ] 
 तत्र प्राणो मुखनासिकागतिराहृदयवृत्तिः । समं नयनात् समान: आनाभिवृत्तिः आनाभिदेशं वर्तते । मूत्रपुरीषादीनाम् अपनयनादपानः, स च नाभिप्रभृति आपादतलं वर्तते । ऊर्ध्वं शरीरस्य नयनादुदानः, स च पादतलादारभ्य आमस्तकवृत्तिः । समस्तशरीरव्यापी व्यान इति ॥

एतेषां प्रधानः प्राणः । तज्जयाच्च सर्वेषामपानादीनां तु जयो भवति । तेषां तु जयोपायो विस्तरेण हैरण्यगर्भे व्याख्यातः । इह तु मनोजयानुजितत्वात् तेषां जयोपायो न पृथगभिहितः। प्राणायामजयात्तु जीयन्त एव । न पृथगेषां जयोपायप्रतिपादनमादृत्यमिति फलमात्रमुदानजितेरुच्यते- उदानजयात् जलपङ्ककण्टकादिषु, आदिना कृपाणधारादिषु असङ्गः । किं च, उत्क्रान्तिश्च प्रायणकाले भवति। तां प्रायणकाले भवन्तीमुत्क्रान्तिमुदानजयात् वशीकृत्य स्वतन्त्रतया प्रतिपद्यते ॥ ३९ ॥ ` समानजयात् ज्वलनम् । जितसमानः तेजस उपध्मानं कृत्वा समानवाय्वाश्रयत्वात् उदानतेजसोः तदुपध्मानकर्मकारकस्तावद्योगी। जाठरं ज्वलयति॥४०॥

  श्रोत्राकाशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम् । कः पुनरसौ संबन्धो यत्र संयम इत्याह-सर्वश्रोत्राणामाकाशं प्रतिष्ठा। शब्दानां चाकाशगुणत्वादाकाशमेव प्रतिष्ठा । ग्राह्यं शब्दं प्रति श्रोत्रस्य व्यवधानाभावः श्रोत्राकाशयोः सम्बन्धः ॥

!. वशित्वेन -2 ت. -- چ------------۰ •س. सर्व