पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/331

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२८७
 
विभूतिपादः तृतीयः



[भाष्यम्]

 द्वितीये तपसि लोके त्रिविधो देवनिकायः-आभास्वरा महाभास्वराः सत्यमहाभास्वरा इति । ते भूतेन्द्रियप्रकृतिवशिनो द्विगुणद्वेिगुणोत्तरायुषः सर्वे ध्यानाहारा ऊर्ध्वरेतस ऊर्ध्वमप्रतिहतज्ञाना अधरभूमिष्वनावृतज्ञानविषयाः । तृतीये ब्रह्मणः सत्यलोके चत्वारो देवानिकाया अकृतभवनन्यासाः स्वप्रतिष्ठा उपर्युपरि स्थिताः प्रश्चानवशिनो यावत्सर्गायुषः ॥

 तत्राच्युताः सवितर्कश्ध्यानसुखाः, शुद्धनिवासाः सविचारध्यानसुखाः, सत्याभा आनन्दमात्रध्यानसुखाः, संझासंज्ञिनश्वास्मितामात्रध्यानसुखाः । तेऽपि त्रैलोक्यमध्ये प्रतितिष्ठन्ति । त एते सप्त लोकाः संर्व एव ब्रह्मलोकाः । विदेहप्रकृतिलयास्तु मोक्षपदे वर्तन्त इति, न लोकमध्ये न्यस्ता इति । एतत् योगिना साक्षात्करणीयं सूर्यद्वारे संयमं कृत्वा । ततोऽन्यत्रापि एवं तावदभ्यसेत् यावदिदं सर्वं दृष्टमिति ॥ २६ ॥

[सूत्रम्]

 चन्द्रे ताराव्यूहज्ञानम् ॥ २७ ॥

[भाष्यम्]

 चन्द्र संयमं कृत्वा ताराणां ब्यूहं विजानीयात् ॥ २८ ॥

[सूत्रम्]

 ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥}}

[विवरणम्]

 भुवनज्ञानं सूर्ये संयमात् ।। सूर्ये संयमं कृत्वा समस्तं भुवनप्रस्तारं प्रत्यक्षीकुर्वीत । भाष्यं तु गतार्थं, सर्वपुराणप्रसिद्धत्वात् ॥ २६ ॥ चन्द्रे ताराव्यूहज्ञानम् | सूर्ये संयमनाद्भुवनप्रस्तारं विदित्वा, तदनन्तरे चन्द्रे संयमं कृत्वा ताराणां व्यूहं विजानीयात्। सूर्यसंयमाद्भुवनप्रस्तारमात्रं प्रज्ञातम्--एवं प्रस्तीर्णाः लोका नद्यः समुद्रा गिरयश्चेति । न तु तारा इत्थं व्यूहिता अनेन सम्बद्धा इति । चन्द्रसंयमात्तु ताराव्यूहप्रकारावगतिरिति ॥ २७ ॥}}

 ध्रुवे तद्गतिज्ञानम् । ततश्च समनन्तरं ध्रुवे संयमं कृत्वा ताराणां गर्ति विजानीयात्-अनेन प्रकोरण सञ्चरमाणा अनेन विशिष्टा इति। अस्मिन् कालेऽनेन ग्रहेण अयं ग्रहो विरुध्यते, इत्थमस्तमयः । इत्थमुदयः, तद्द्वारेण प्राणभूतां शुभमशुभं चेत्यादि विजानीयात् ॥}}