पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/325

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२८१
 
विभूतिपादः तृर्तीयः




[सूत्रम्]

 न च 1सालम्बनं तस्याविषयीभूतत्वात् ॥ २० ॥



[भाष्यम्]

 रक्तं प्रत्ययं जानाति । अमुष्मिन् आलम्बने रक्त इति न जानाति । परप्रत्ययस्य यदालम्बनं तत् योगिचित्तेन न आलम्बनीकृतम् । परप्रत्ययमात्रं तु योगिचित्तस्य आलम्बनीभूतम् इति ॥ २० ।।



[सूत्रम्]

 कायरूपसंयमात् तद्ग्राह्यशक्तिस्तम्भे चक्षुष्प्रकाशासम्प्रयोगे अन्तर्धानम् ॥ २१ ॥



[भाष्यम्]

 कायस्य रूपे संयमात् रूपस्य या ग्राह्या शक्तिः तां2 प्रतिबध्नाति ।



[विवरणम्]

 तत्र परप्रत्ययसाक्षात्करणात् तद्दु:खे दु:खित्वं, तत्सुखे सुखित्वं च प्राप्नोतीत्याशङ्कयाह-न च सालम्बनं तस्य अविषयीभूतत्वात् । रक्तं प्रत्ययं जानाति योगी । परस्य अमुष्मिन् आलम्बने रक्तः प्रत्यय इति न जानाति । परप्रत्ययस्य यदालम्बनं सुखरूपं दुःखरूपं वा, येन सुखी दुःखी वा भवेत् ॥

 ननु चालम्बनमसञ्जानानः कथममुष्मिन् रक्त इति सञ्जानीत इति ? उच्यते-रक्तममुष्मिन्निति सामान्यं विजानाति । न पुनः सुखविशेषं सुखिनः प्रत्ययस्यालम्बनीभूतमालम्बते । परप्रत्ययमात्रं तु योगिचित्तस्यालम्बनीभूतम् ॥ २० ॥

 फलकम्:Bold'''

1. न च तत् सा

2.प्रतिष्टभ्नाति ।