पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/319

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७५
विभूतिपादः तृतीयः

 यो हि प्रकृतिप्रत्ययपदवर्णानां संकेतद्वारेणान्योपायानां मिथ्याभूतलिप्यक्षरकल्पानां स्वयमपि स्वसंकेतेन वाक्यार्थप्रतिपत्युपायमनेकधा निर्माय व्यवहरमाणः सत्यत्वमेषां मन्यते, नूनमसावभ्रे चन्द्र,सं दिदृक्षमाणः चन्द्रदर्शनोपायभूतमभ्रमपि चन्द्रत्वेन प्रतिपद्यत इति ॥

 यथा च वाक्यमेव सत्यं,तथा वाक्यार्थस्यैव सत्यत्वं, न पदानि, पदार्था वा केवलाः, सत्यत्वमुपयान्ति । सर्वमेव सामान्याविशेषात्मकं वस्तु । न हि सामान्यव्यावृत्तो विशेष:, विशेषव्यावृत्तं वा सामान्यमस्ति । गौरित्युक्ते अस्तीतेि गम्यते । तेन केवलपदप्रयोगेऽप्यन्तर्नीतपदान्तरार्थों वाक्यार्थ एव प्रतीयते, न केवलपदार्थ: ॥

 एवं च सति

पदार्था गमयन्त्येतं प्रत्येकं संशये सति ll सामस्त्ये निर्णयोत्पदात् स्थाणुमूर्धस्थकाकवत् ॥

 इत्यसिद्धमस्माकम् । न हि स्थाणुर्नाम वाक्यार्थः पृथक्पदार्थत्वेन प्रसिद्धः । यस्मात् वृक्षः सन् स्थाणुः सन् मूर्धा सन् काकः सन् मूर्धनि स्थाणोः इत्यन्तर्नीतप्रतीयमानपदान्तरास्थानपेक्षायां स्थाणुमूर्धस्थकाकबुद्धिरेव न स्यात् । सत्स्वपि तेषु सद्बुद्धिसमुत्पत्तेः सत्पदार्थान्तरबुद्धिरवश्यंभाविनी ॥

 तस्मात् वाक्यार्थ एव प्रत्येकमपि संशयात्मक इति कुतः पदार्थाः प्रत्येकमसन्तो वाक्यार्थं गमयेयुः । तस्मादेवमयं श्लोकः पठितव्यः---

 वाक्यं तु गमयत्येनं प्रत्येकं संशये सति ।।  सामस्त्ये निर्णयोत्पादात् स्थाणुमूर्धस्थकाकवत् ॥

एवम्---

 वाक्येनैवोच्यते तस्मात् वाक्यार्थोऽन्यैररूपणात् ।

 अन्ते चास्तीति बोधाच्च वृक्षेणैव च वृक्षता ॥

 यत्तु-पलाशशब्देन वृक्षता नोच्यते इति, सत्यमेवमेतत् । न हि पलाशवाक्येन वृक्षवाक्यार्थस्याभिधानम् । भिन्नविषयत्वात् । अन्यो हि पलाशवाक्यार्थः पलाशोऽस्ति तिष्ठतीति वा । अन्यो वृक्षवाक्यार्थः । यदा च पदवर्णानां निरवयवानां पृथगस्तित्वमभ्युपगम्यते, तदा निरवयववर्णपदोपादानं वाक्यं सावयवं कथमवकल्पेत । न हि क्रियाकाशादिभिः सावयवं शक्यमारब्धुम् । अथ सावयवत्वमभ्युपायिष्यते, तत्रापि दोष एव प्रसज्येत ॥

 1. श्लोकवार्तिके वाक्याधिकरणे श्लो. 363.