पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/318

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२७४
पातञ्जलयोगसूत्रभाष्यविवरणे

 क्व चिदुपसर्गोऽपि 'असंग्रामयत शूर' इत्यादिषु प्रकृत्येकदेशतामापन्नः । तथा, अततेर्नः, अः, अस्यापत्यमिः, इयान् , अधुना, इत्यादौ कः प्रकृत्यर्थभागम् असत्यां प्रकृतौ ब्रूयात् । अग्निचित्, सोमसुत्, भिदा, छिदा, अथो, कति, अमा, पच, पठ, इत्यादिषु प्रत्ययार्थमसति प्रत्यये को ब्रूयात् ॥

 एवमादिषु लक्षितापचाराणां प्रकृतिप्रत्ययनां कः शक्नुयादर्थवत्वं कल्पयितुम्। अत्र भवतु नान्यत्रेति नार्धजरतीयं लभ्यम् । उद्दालकपुष्पभञ्जिकापारं न पुष्पप्रचायिका, इत्यत्र कः पूर्वपदोत्तरपदार्थः ? प्रज्ञः, संज्ञ, इत्यादिषु प्रत्यन्वयोऽपि नास्तीति कस्य कोऽर्थः ? इति ॥

 ऋषभो, वृषभो, वृषः, उदकं, उदकुम्भः, क्षीरोदः, यावो, यावकः, कूपः, सूपः, यूपः, इत्यादिषु कस्य कोऽर्थः इतिवक्तव्यम् । दध्यशान, मध्वत्र, इत्यादिषु, किमवधि केिं पदं वाचकम् ? ॥

 तस्मात् सर्वत्र दृष्टापचाराणां वर्णप्रकृतिप्रत्ययपदानाम् अनर्थकानाम् अदृष्टापचारनिरवयववाक्योपायत्वमेव । तानि निःसन्धिबन्धनात् निरवयवात् मिथ्याभूतवर्णपदध्वनिकृतचित्रीभावाद्वाक्यादपोद्धत्य व्याकरणीयानि ॥

 तानि च वाक्यस्यानवयवभूतानि, उपायत्वात् वाक्यावयववदवभासमानानि, यावत्फलम् असत्त्वात् शताद्यङ्कवदेव मिथ्याभूतानि, अनुच्चार्यमाणवाक्यावद्योतनार्थं करणसन्निपाते विशेषेणोपादाय परिहीयमाणानि, स्वकीयक्रमनिष्पत्तिविनिवृत्तिकालादिभेदविचित्रतया वाक्यात्मानं क्रमवन्तमिव, निष्पद्यमानमिव, निवर्तमानमिव, द्राघीयांसमिव, कालवन्तमिव,भेदवन्तमिव, विचित्राकारतामापादयन्ति ॥

 एवं च सति, यदुच्यते शशविषाणादपोद्धृत्य खरविषाणस्य, किं तदिति एतदलीकं, यथैव मृगतृष्णिकातोयमलीकमपि सत्यादूषरादपोद्धियते, यथा च स्थाणोः पुरुषः, पुरुषाच्च स्थाणुः, शुक्तिकातश्च रजतमपोद्धियते, यथैव च मृगतोयादयो यथाभूतोषरादिवस्तुप्रतिपत्तिहेतवः, तथा वर्णपदप्रकृतिप्रत्यया यथाभूतवाक्यार्थप्रतिपत्तिकारणे तत्प्रतिपत्तौ चापोद्धियन्ते ॥

 क्वचिदर्थप्राप्तमपोद्धियते, यथा मृगतोयादिकम् । क्वचित्तु प्रयोजनत्वेन विवक्षितं, यथा शतादिसङ्ख्यातः शताद्यङ्कापोद्धारः क्रियते, यथा च लिप्यक्षराणि सङ्केतापेक्षत्वात् कृतसमयरूपाणि अकारादिवर्णादपोद्ध्रियन्ते । अथ च सर्वाण्यतानि यथाभूतार्थप्रतिपादनोपायत्वं प्रतिपद्यन्ते । न च तावता मिथ्यात्वमेषां नास्ति । तथा पदादीन्यपि ॥