पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/313

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६९
विभूतिपादः तृतीयः

 अथाऽपि परकल्पितपदवाक्यप्रतिषेधः, एवमपि व्यञ्जकत्वादित्यसिद्धो हेतुः । कथम् ? स्वात्मव्यतिरिक्तस्य वा पदस्य व्यञ्जकत्वं, अव्यतिरिक्तस्य वा व्यञ्जकत्वं, अर्थस्य वा व्यञ्जकत्वं वर्णानामिति त्रयी विकल्पना । यदि व्यतिरिक्तस्य व्यञ्जकत्वं, तदा स्वतोऽसिद्धः स्यात् ॥

 अथाव्यतिरिक्तस्य, तथाऽपि परस्यासिद्धः । किं च, व्यञ्जकत्वाच्च व्यतिरिक्तस्यैव व्यञ्जकत्वं, नाव्यातिरिक्तस्य, प्रदीपादेरिव । अन्यव्यञ्जनार्थं हि व्यञ्जकः प्रदीपादिरुपादीयते, न स्वात्मव्यञ्जनाय । स्वात्मव्यक्त्यर्थं चेदुपादास्यते, जनुषाऽन्धस्यापि व्यज्येत |

 अथ व्यतिरिक्तव्यञ्जकत्वे सिद्धे, पदस्य व्यञ्जका भवेयुः, अर्थस्य वा । तत्रानेकसाध्यं यथा शिबिकोद्वहनादि, तत् अन्यतमेन न शक्यं अनुष्ठातुं, एवमन्यतमेन वर्णानामर्थस्य प्रतिपादनमनेकसाध्यत्वादशक्यमिति प्रतिपादितम् ॥

 न च कूपखानकन्यायेनापि कंचित् कंचित् व्यङ्गये संस्कारमाधाय वर्णा निवर्तन्ते इति शक्यं वक्तुम् । अभिधेयस्यैकबुद्धिविषयत्वात् ॥

 यथा च सुगतकृतान्ते प्रध्वंसमानं विज्ञानमुत्पत्स्यमानस्य विज्ञानस्य संस्कारमाधातुमपर्याप्तं, स्थितस्य धर्मिणः कस्यचिदभावात् । एवमन्योन्यसंबन्धाभावादयुगपत्समयजन्मनां वर्णनां पूर्वस्य पूर्वस्य विनश्यत उत्तरस्योत्तरस्य चोपजनिष्यमाणस्य बलाधानानुपपत्तिरिति नार्थस्य व्यञ्जका वर्णाः ॥

 परिशेषात् पदस्यैव व्यतिरिक्तस्याभिव्यङ्जितारः इति स्थितधर्मः । अस्माकं तु स्थिते धर्मिणि चेतसि पूर्वपूर्ववर्णप्रत्युपस्थितसंस्कारपरम्परापरिपाकविशारदे पश्चिमवर्णजन्मवेलायां निरवयवमेकबुद्विनिर्ग्राह्मबुद्धिनिर्भासात्मकं झटिति समुन्मिषतीति न संस्काराधानासामर्थ्यदोषप्रसङ्गः ॥

 किं च, यद्यपि वर्णाः स्वबुद्धिं व्यञ्जयन्ति । सा बुद्धिरर्थप्रतीतिं प्रति करणभूतैवाभिव्यज्यते, न तु फलं प्रति वर्णाः करणत्वेन व्याप्रियन्ते । करणभूतबुद्धद्युत्पादनोपक्षयत्वात् । बुद्धेरेव हि फलं प्रति व्यापारः । यस्य हि फलं प्रति व्यापारः तत् प्रमाणं, स शब्दः । ततश्च अर्थप्रतीतिं प्रति कारणभूतबुद्धिव्यवहितत्वात् न वर्णानां वाचकत्वम् । परम्परया तु पदं प्रत्युपायत्वं न वर्णानां प्रतिषिध्यते ॥