पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/311

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६७
विभूतिपादः तृतीयः

पदावभासनव्यापारपरत्वादेव अपरपदान्तरप्रतिपादकशक्त्यन्तरेभ्यः परिच्युता: निवृत्ता: इतरेतरविशेषविनियोगपरवशावेशादुदासीनपदान्तरप्रकाशनशक्तयःगकारौकारविसर्जनीयाः सास्नादिमन्तमर्थमवद्योतयन्ति पदमभिव्यञ्जयन्तः ॥

{{gap}}तदेषामर्थसङ्केतेनावच्छिन्नानाम् अभिहितेन न्यायमार्गेण अनुगृहीतध्वनिक्रमाणां विशिष्टानुपरिपटिसमायोगिनाम् इत्थंक्रमविशेषक्रमलब्धजन्मनां वर्णानां सम्बन्धः य एको बुद्विनिर्भासः बुद्धेर्निर्भासः तत् पदं भूमिः (भूमिषुमेव) भूमिकेव वाचकं वाच्यस्य न वर्णाः । वर्णद्वोरण तु सङ्केत्यते ॥

 तत् पदमेकम् एकमपि, यद्वस्तु सावयवं घटादि तदनेकबुद्धिविषयं दृष्टं, न तु पदं तथा । तत् एकबुद्धिविषयं सर्वलेोकप्रत्यक्षम् । वर्णाः पुनरनेकत्वादयुगपत्कालजन्मानः एकबुद्विविषयतां न समुपाश्नुवते । यस्वेवमेकबुद्विनिर्ग्राह्यमनुमानेन निराचिकीर्षति, तस्य प्रत्यक्षाविरोधिनी प्रतिज्ञा स्यात् ॥

 एवम् एकप्रयत्नाक्षिप्तं वर्णक्रमजन्मप्रत्युपनीतसंस्कारनिमित्तबुद्धिपरिपाकाभिसमीक्षया पश्चिमबुद्धौ झटति परिस्फुरितं, अविभागं अवयवशून्यं, अत एव अक्रममवर्णात्मकमन्त्यवर्णप्रत्ययव्यापारोपस्थापितम् आद्यवर्णव्यापारपरम्परानुगृहीतपश्चिमवर्णग्रहणमात्रप्रत्युद्भासितम् ॥

{{gap}}परत्र परबुद्धिप्रतिपिपादयिषया वर्णैरेवाभिधीयमानैः अभिधातृभिः, श्रूयमाणैश्च श्रोतृभिः, अनादिवाग्व्यवहारवासनानुविद्धया लोकबुद्धया सिद्धवत् संप्रतिपत्त्या प्रतीयते । (नापि) अनादिसंसारचक्रमण्डले परिवर्तते । शब्दादेवार्थप्रतिपतिपूर्वको व्यवहारः, तद्वासनावासितया लोकधिया सिद्धवतू प्रतीयत इति, लौकिकानां सम्मुग्धाकारप्रवर्तितव्यवहारमात्रचरितप्रयोजनानां आत्मनीव पदे विप्रतिपत्तिः ।

 तस्मात् [पदं] वर्णव्यतिरिक्तम्, एकबुद्धिनिर्ग्राह्यत्वे सति प्रत्यायकत्वात्, प्रदीपवत् । अर्थप्रतिपत्तौ च कारणत्वात्, प्रदीपवत्, बुद्धिवश्च । न वर्णाः पदम्, एकेन कर्त्रा क्रमेण प्रयुज्यमानत्वात्, करणत्वाच्च, वासीवृक्षादानादिवत् ॥

अत्र 'कश्चित् आह--

1. कुमारिलभट्टः श्लोकवार्तिके स्फोटवाद 131-x136-श्लाकैः