पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/308

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

पदं पुनः नादानुसंहारबुद्धिनिर्ग्राह्यम् इति । वर्णाः एकसमयासम्भवित्वात् परस्परनिरनुग्रहात्मानः । ते पदम् 'अनुपसंस्पृश्य अनुपस्थाप्य आविभूताः तिरोभूताश्च इति प्रत्येकम् अपदस्वरूपा उच्यन्ते ॥

[ विवरणम् ]

{{gap}}ननु च श्रोत्रग्राह्य एव शब्दः । न—अर्थप्रत्यायकत्वात् । अर्थ यः सम्प्रत्याययति स शब्दः । कः पुनरसौ ? पदम् । तत् पुनर्नादानुसंहारबुद्धिनिर्ग्राह्यं नादानां ध्वनीनां श्रेोत्रविषयभूतानां प्रत्येकं प्रत्ययिनि संस्कारमाधाय निवर्तमानानाम् अन्त्येन ध्वनिना या समुपस्थापिता बुद्धिः सानादानुसंहारबुद्धिः प्रथमध्वनिक्रमानुसंहारासादितसंस्कारस्य प्रत्ययिनश्चित्तस्य जायते, तयैकया बुद्धया अयं निर्गृह्यते । तत् पदम् । तच्च प्रत्यक्षत्वात् रूपादिवन्नान्यप्रमाणापेक्षम् ॥

 ननु च गकारौकारविसर्जनीयाः इति भगवानुपवर्षः । तन्न-अवाचकत्वात् । कथम् ? समुदायासम्भवात् । समुदायासम्भवश्च एकसमयासम्भवित्वात् । न हि गकारोच्चारणकाले औकारविसर्जनीयौ । नाप्यौकारोच्चारणकाले गकारविसर्जनीयौ । नापि विसर्जनीयप्रवृत्तिवेलायामितरयोः समवस्थानमिति वर्णसमुदायासम्भवादवाचकत्वम् ॥

 यथैव वर्णानां युगपत्समयानवस्थानम् , एवं संस्काराणाम् स्मृतीनां च तज्जनितानामयुगपत्कालत्वादवाचकत्वम् । स्मृत्युपयोगार्थत्वाच्च संस्कारस्यानुभूतविषय एवोपयोगात्, प्रत्याय्यस्य चापूर्वत्वात् ॥

 अपि च संस्काराणां वाचकवाभ्युपगमे, 'शब्दादर्थप्रतिपत्तिः' 'पूर्वीपरीभूतं भावमाख्यातेनाचष्टे’ ‘धर्मस्य शब्दमूलत्वादशब्दमनपेक्ष्यं स्यात्? इति प्रसिद्धिरपहूयेत ।

 अथापि वर्णभावभावित्वेन स्मृतिसंस्कारयोरपि शब्दत्वमुपचर्येत । नैतदपि--तद्भावभावित्वं नाम तस्मिन्नेव सति भवत्यसत्यभाव एव यत्र, तत्र स्यात् । (न च) तच्च वर्णानां शब्दत्वे सिद्धे भवेत् । लोकस्तु शरीरादावात्माभिमानादविवेकादतस्मिन्नपि तद्बुद्धिं करोतीति न सर्वत्र वस्तुनिर्णये । हेतुर्भवति ॥
1. असंस्पृश्य