पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/306

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

 ते च सप्तैव भवन्ति अनुमानेन प्रापितवस्तुमात्रसद्भावाः ।
 निरोधधर्मसंस्काराः परिणामोऽथ जीवनम् ।
 चेष्टा शक्तिश्च चित्तस्य धर्मा दर्शनवर्जिताः ॥ इति ॥ १५ ॥
  1एते योगिन उपात्तसर्वसाधनस्य बुभुत्सितार्थप्रतिपत्तये संयमस्य विषय उपक्षिप्यते

[ सूत्रम् ]

परिणामत्रयसंयमात् अतीतानागतज्ञानम् । १६ ॥

[ विवरणम् ]

[ते च]2 स्वविषयवृत्तिसद्भावैः सप्तैव भवन्ति । ते कथमवगम्यन्त इति ? अनुमानेन प्रापितवस्तुमात्रसद्भावाः कार्यलिङ्गेनावगतसद्भावाः । स्वरूपेण तु नानीश्वरैरुपलभ्यन्ते । ततश्चैकैकवेनोच्यन्ते ॥

 निरोधधर्मसंस्काराः । निरोधः उक्तः । धर्मः इति, धर्माधर्मौ । संस्काराः वासनारूपाः । परिणामः उक्तलक्षणः । अथ जीवनम् इति, धर्माद्यपेक्षया सकलकरणवृत्तिः प्राणलक्षणा येन चित्तधर्मेण भवति, स जीवनम् इत्युच्यते । चेष्टा व्यापारः । शक्तिः सामर्थ्यं, चित्तस्य धर्माः । दर्शनवर्जिताः अप्रत्यक्षाः । इति एते सप्त निरोधादयश्चित्तधर्मा अपरिदृष्टा उच्यन्ते ॥ १५ ॥

 एते त्रयः परिणामा धर्मलक्षणावस्थारूपाः योगिनः उपात्तसर्वसाधनस्य समासादितयमादिसकलसाधनस्य स्थिरतरसंयमस्य, अतीतानागतप्रत्युपस्थितबुभुत्सितार्थप्रतिपत्तये संयमस्य विषयः उपक्षिप्यते । त्रयोऽप्येको विषयः संयमस्य ॥

 परिणामत्रयसंयमादतीतानागतज्ञानम् । परिणामत्रये तावत् संयमः करणीयः, यावत् समाधिप्रज्ञाऽऽलोकः । स च यद्विषय उपस्थितः, तं विषयं यथाभूतं प्रत्यक्षतामापादयति । सूक्ष्मं व्यवहितमतीतमनागतं विप्रकृष्टं वा यमुद्दिश्य प्रापणाभिप्रायेण सूक्ष्मादिषु संयमः क्रियते, तदा सोऽर्थो


1. अतो यो.
2. अत्र आदर्शकोशे इत उपरेि 'लक्ष्यमाण' इत्यादिः, अत्र (178) पुटे प्राक् मुद्रितः ग्रन्थः दृश्यते । तस्यानन्वयात् आदर्शकोशे (14) पुटेभ्यः उपरि लिखितः ‘स्वविषयवृत्ति' इत्यादिः ग्रन्थः योजितः ॥