पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/305

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६१
विभूतिपादः तृतीयः

[ भाष्यम् ]

परां व्यक्तिम् 1आपादिता इति । धर्मलक्षणाभ्यां च विशिष्टोऽयं तृतीयः परिणाम इति ॥
 त एते क्रमाः धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । धर्मोऽपि धर्मी भवति 2अन्यधर्मापेक्षया इति । यदा तु परमार्थतो धर्मिणि3 अभेदोपचारद्वारेणाभिधीयते धर्मः, तदा अयम् एकत्वेनैव क्रमः प्रत्यवभासते ॥
 चित्तस्य द्वये धर्माः परिदृष्टाश्च अपरिदृष्टाश्च । तत्र प्रत्ययात्मकाः परिदृष्टाः, वस्तुमात्राः4 अपरिदृष्टाः ।

[ विवरणम् ]

क्षणमभिनवभावपरिमर्दनेन पुराणता सञ्जनिष्यते । सा च प्रान्तेषु परां व्यक्तिमापादिता । मध्ये तु सूक्ष्मतया न विभाव्यते । तेन मध्यावस्थायां सन्नपि क्रमो न लक्ष्यते । प्रान्तकालाभिव्यक्तिलिङ्गेनानुमायिष्यते-येन इयं पुराणता परां व्यक्तिमुपप्रापिता सोऽयं क्रम इति । न हि घटे परिनिष्पन्नमात्रे प्रतिक्षणजन्माऽपि पुराणता गृह्यते ॥ 

 तथा च वदिष्यति-5“क्षणप्रतियागी परिणामापरान्तनिर्ग्राह्यः क्रमः" इति । तस्मात् धर्मलक्षणक्रमाभ्यामवस्थाक्रमस्यान्यत्वात् धर्मलक्षणपरिणामाभ्यां विशिष्टोऽयं तृतीयः परिणामः ॥

 त एते क्रमा धर्मधर्मिभेदे सति प्रतिलब्धस्वरूपाः । विवक्षिते तु धर्मधर्मिणोरभेदे तत्र क्रमभेदो न लभ्यते । धर्मोऽपि धर्मी भवत्यन्यधर्मापेक्षया । गुणेभ्योऽन्यत्र धर्मधर्मित्वं नाम न व्यवस्थितम् । महदादीनामप्यविशेषापेक्षया धर्मित्वम् । अविशेषाणां च विशेषापेक्षया, विशेषाणां च शान्तोदितापेक्षयेति । यदा तु परमार्थतो धर्मिण्यभेदोपचारद्वारेणाभिधीयते धर्मः, तदाऽयमेकत्वेनैव क्रमः प्रत्यवभासते ॥

 तत्र चित्तस्य द्वये द्विविधाः धर्माः परिदृष्टाश्चापरिदृष्टाश्च उपलब्धाश्चानुपलब्धाश्च । के ते इत्याह---तत्र प्रत्ययात्मका: रागद्वेषमोहादयः परिदृष्टाः । वस्तुमात्राः स्वरूपेण विद्यमानाः कार्ययोगिनः अपरिदृष्टाः ।


1. आपद्यते.
2. अन्यधर्मस्वरूपापेक्षया.
3. अभेदोपचारः, तद्द्वारेण स एवाभिधीयते
4. -त्रात्मकाः अ-
5. यो. सू. पा. 4- सू. 33.