पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/304

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२६०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

   लक्षणपरिणामक्रमः, घटस्य 1अनागतात् वर्तमानभावः क्रमः । तथा पिण्डस्य 2वर्तमानादतीतभावः क्रमः । नातीतस्यास्ति क्रमः । कस्मात् ? 3पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा तु नास्ति अतीतस्य । तस्मात् द्वयोरेव लक्षणयोः क्रमः ॥

  तथा अवस्थापरिणामक्रमोऽपि घटस्य अभिनवस्य प्रान्ते पुराणता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेण 4अभ्यूह्यमाना

[ विवरणम् ]

प्रतिपद्यते । पिण्डधर्मविमर्दनेन तद्विरोधी तदनन्तरं घटाख्यो धर्म उपजायते ॥

  धर्मपरिणामश्च द्विविधः, तुल्यपरिणामश्चातुल्यपरिणामश्च । यथा पिण्डो घट उपजायत इत्यतुल्यपिण्डस्य, घटादिधर्मैर्मृदाख्यो धर्मी परिणमते, सः अतुल्यधर्मपरिणामः । यावच्च घटस्य जन्मनः प्रभृति आ कपालापत्तेः तावत् घटरूपेणैव परिणमते मृदिति स तुल्यधर्मपरिणामः ।

  तथा चित्तमपि निरुद्धवृत्तिकमेकाग्रतावस्थायां तुल्याभ्यां धर्माभ्यां शान्तोदितप्रत्याभ्यां परिणमते, व्युत्थाननिरोधाभ्यां धर्माभ्याम् अतुल्याभ्यां परिणमते, तथा म्युत्थानवेलायां शान्तघोरमूढैः प्रत्ययैर्धर्मैरतुल्यैः परिणामं प्रतिपद्यते । सोऽयं धर्मपरिणाक्रम उक्तः ॥   इदानीं लक्षणपरिणामक्रम उच्यते---लक्षणपरिणामक्रम: घटस्यानागतात् लक्षणात् वर्तमानभावः । तथा पिण्डस्य विरोधिधर्मोदये वर्तमानादतीत[भाव]ः क्रमः । नातीतस्यास्ति क्रमः । धर्मे हि वर्तमानलक्षणस्य समनन्तरं यल्लक्षणं स लक्षणक्रमः । न चातीतलक्षणस्य समनन्तरं लक्षणमस्ति ॥

 {{gap}}कस्मात् ? पूर्वापरतायां हि सत्यां समनन्तरत्वम् । सा चातीतस्य नास्ति । तस्मात् द्वयोरेव अनागतवर्तमानयोः लक्षणयोः क्रमः । अतीतस्य क्रमाभावप्रतिपादनेन प्रयोजनम् 5'क्षणतत्क्रमयोः संयमात्’ इत्यत्र भविष्यति ॥

 {{gap}}तथा अवस्थापरिणामक्रमः घटस्याभिनवस्य प्रान्ते अवसानावस्थायां पुराणाता दृश्यते । सा च क्षणपरम्पराऽनुपातिना क्रमेणाभ्यूह्यमाना प्रति-


1.अनागतभावात्
2.वर्तमानभावात्
3.पूर्वपरतायां सत्यां
4.अभिव्यज्यमाना
5.यो. सू. पा. 3. सू. 52.