पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/302

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५८
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यमू ]

 देशकालाकारनिमित्तापबन्धात् न खलु समानकालम् आत्मनाम् अभिव्यक्तिः इति । य एतेषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सोऽन्वयी धर्मी । यस्य तु धर्ममात्रमेवेदं निरन्वयं तस्य भोगाभावः । कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणः अन्यत् कर्थं भोक्तृत्वेन अधिक्रियेत ? । 1स्मृत्यभावश्च, नान्यदृष्टस्य स्मरणम् अन्यस्यास्ति इति । वस्तुप्रत्यभिज्ञानाच्च स्थितोऽन्वयी धर्मी, यो धर्मान्यथात्वमभ्युपगतः प्रत्यभिज्ञायते । तस्मात् नेदं धर्ममात्रं निरन्वयम् इति ॥ १४ ॥

[ विवरणम् ]

 यदि सर्वं सर्वात्मर्कं, तदा सर्वं सर्वत्रोपलभ्येत, सम्मतविप्रयोगजन्मा च शोको मा प्र(ति)वर्तिष्टेत्यादेरुत्तरं पठति--देशकालाकारनिमित्तापबन्धात् देशादीनामपबन्धः अवबन्धः तस्मात्, न समानकालं आत्मनां सर्ववस्तूनां अभिव्यक्तिः । कस्य चित् क्व​चिदेव देशे काले च केन चिदेवाकरेण तनुभृतां च धर्मादिनिमित्ताभिसमीक्षया क्वञ्चिदेवाभिव्यक्त्तिः, यथा राहुप्रभृतीनाम् । एतेनैव सम्मतविप्रयोगनिमित्तशोकाद्युपपत्तिः । अत एकैकस्मिन् अतिलङ्घितसंख्यागोचरत्वात् धर्मा न शक्या व्यपदेष्टुम् ॥

 य एतेषु शान्तोदिताव्यपदेश्येषु अभिव्यक्तानभिव्यक्तेषु धर्मेषु अनुपाती सामान्यविशेषात्मा सत्त्वादिशब्दादिरूपेण सोऽन्वयी धर्मी । यस्य तु वादिनः धर्ममात्रमेवेदं निरन्वयं बाह्यमाध्यात्मिकं च, यस्य च ज्ञानमात्रमेव, तस्य धर्माणां क्षणप्रणाशित्वादतीतानागतवर्तमानपथारोहिणां समानकालानां च भोक्तृभोग्यत्वादिसंबन्धानुपपत्तेः भोगाभावः ॥

 सम्बन्धाभावं दर्शयति--कस्मात् ? अन्येन विज्ञानेन कृतस्य कर्मणोऽन्यत् विज्ञानमकर्तृ भविष्यत् कथं भोक्तृत्वेनाधिक्रियेत । कर्तुश्च फलाभिप्रवृत्तेः फलेन संबन्धो युज्यते । अन्यः कर्ता फलेन चान्यः सम्बध्यत इति विरुध्यते ॥

 स्मृत्यभावश्च​ । कृतकरणीयादिविषयस्मृत्यभावश्च​ । अन्यदृष्टस्य स्मरणमन्यस्य नास्तीति । न हि चैत्रदृष्टस्य वसुमित्रः स्मरति । [वस्तु]प्रत्यभिज्ञानाच्च, यस्मात् तदेवेदमिति वस्तु प्रत्यभिजानीमः, तस्मात् स्थितोऽन्वयी धर्मीं धर्मान्यथात्वं धर्मैरन्यथात्वं अभ्युपगतः प्रतिपन्नः । न तु स्वरूपेणान्यथात्वम्। यथा रुचकादिभेदानुगतमपि कनकमेवेति प्रत्यभिजानीमः । तस्मात् नेदं धर्ममात्रं निरन्वयमिति ॥ १४ ॥


1. तत्स्मृत्यभावश्च​.