पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/300

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५६
पातञ्जलयोगसूत्रभाष्यविवरणे

[भाष्यम ]

 योग्यतावच्छिन्ना धर्मिणः शक्तिरेव धर्मः । स च 'फलप्रसवभेदानुमितसद्भावः एकस्य 2अन्यश्चान्यश्च । दृष्टः तत्र वर्तमानः स्वं व्यापारं अनुभवन् धर्मीं धर्मान्तरेभ्यः शान्तेभ्यश्च अव्यपदेश्येभ्यश्च भिद्यते । यदा तु सामान्येन समन्वागतो भवति, तदा धर्मिस्वरूपमात्रत्वात् कोऽसौ केन भिद्येत​ ||

 3ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारम्4 उपरताः । सव्यापाराः उदिताः । ते च 5अनागतलक्षणस्य समनन्तराः । वर्तमानस्य अनन्तरा अतीताः । किमर्थं अतीतस्य अनन्तरा न भवन्ति वर्तमानाः ? 6पूर्वपश्चिमाभावात् ।

[विवरणम्]

 स च अव्यक्तोऽपि सन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । यथा देशान्तरे कालान्तरे च ताटङ्कादिक फलं कनकपिण्डः प्रसूयते । तत्फलप्रसवभेददर्शनेनान्यानन्यानपि प्रकारानयं प्रसवितु विभवतीति तस्मिन् धर्मिणि फलप्रसवभेदानुमितसद्भावः । एकस्य धर्मिणः अन्यश्चान्यश्च धर्म इत्यननैकस्य धर्मिणो धर्मासंख्यत्वमाह ॥

{{gap}}तत्र यो दृष्टः स वर्तमानः स्वं व्यापारमुदकाहरणादिक्रं अनुभवन् धर्मान्तरेभ्यः शान्तेभ्यश्चाव्यपदेश्येभ्यश्च भिद्यते ॥

{{gap}}यदा तु सामान्येन धर्मिरूपेण समन्वागतो भवति, अथ तदा धर्मिस्वरूपमात्रत्वात् धर्मिस्वरूपात्मभूतत्वात् कोऽसौ विशेषतः केन वा भिद्येत । ध्यापाराधिरूढ​रूपाणामेव भेदो, न कारणसमनुगमनिरीक्षितात्मनामित्यर्थः ॥

 के पुनः शान्ता उदिता अव्यपदेश्या वा ? ते खलु धर्मिणो धर्माः शान्ताः ये कृत्वा व्यापारमुपरताः । सव्यापारा उदिताः । ते चानागतलक्षणस्य समनन्तराः । तथा वर्तमानस्यानन्तरा अतीताः । किमर्थमतीतस्यानन्तरा न भवन्ति । न सन्तीत्य​र्थ: । पूर्वपश्चिमाभावात् । यो यस्य पश्चाद्भवति स तस्य


1. फलप्रसवभेदानुमित: ए-

2. अन्योऽन्यश्च परिदृष्ट: । तत्र​

3. तत्र ये खलु धर्मिणो धर्माः शान्ताः उदिताः अव्यपदेश्याश्चेति, तत्र शान्ताः

4. -रान् उ-

5. अनागतस्य ल-

б. पूर्वपश्चिमताया अभावात्