पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/296

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२५२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 किं च, त्रयाणां लक्षणानां युगपदेकस्यां[१] वृत्तौ नास्ति सम्भवः । क्रमेण तु स्वव्यञ्जकाञ्जनस्य भावो भवेत् इति । [२]उक्तं च 'रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । सामान्यानि तु अतिशयैः सह प्रवर्तन्ते' । तस्मात् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीं अन्यत्राभावः । किं तु, केवलं सामान्येन समन्वागत इति अस्ति तदा[३] तस्य भाव: । तथा लक्षणस्य इति ।

[ विवरणम्]

न हि क्रोधकाले रागः स्वकाल इव समुदाचरति । क्रोधकाले हि रागः अतीतोऽनागतो वा । तथा क्रोधोऽपि रागकाले । यदि हि वर्तमानसमय एवैकं लक्षणं अभविष्यत्, क्रोधकालेऽपि रागः समुदाचरिष्यत् । नापि वा समुदाचरिष्यत् । नापि क्रोधकाले नास्ति ॥

 किं च-त्रयाणां लुक्षणानां युगपदेकस्यां लक्षणस्य वृत्तौ विरोधात् नास्ति सम्भवः । क्रमेण लक्षणानां क्रमेण स्वव्यञ्जकाञ्जनस्य घटादिस्वव्यञ्जकाञ्जनस्य अन्यतमस्य लक्षणस्य भवेत् सम्भवः ॥ {{gap}}उक्तं च- रूपातिशयाः वृत्त्यतिशयाश्च विरुध्यन्ते । वर्तमानरूपवृत्त्यतिशयैर्युक्ते घटे च पिण्डादिव्यक्तिरूपातिशया विरोधात् न संभवन्ति । अत एव अतीतानागतरूपा धर्मिसामान्यानुगतत्वेनाविरोधात् अतिशयैः सह वर्तन्ते ।

 तस्मात् अध्वनाम् असंकरः । यथा रागस्यैव क्वचित् समुदाचार इति न तदानीमन्यत्र स्त्रीषु अभावो रागस्य । किन्तु केवलं सामान्येन चित्तरूपेण समन्वागतः अतीतोऽनागतोऽपि सन् इत्यस्ति तदा तस्य रागस्य भावः । तथा लक्षणस्येति ।  ननु च पिण्डकपालयोरतीतानागतत्वात् घटावस्थायामभावाच्च ताभ्य मृदाख्यस्य धर्मिणोऽपि अतीतानागतत्वमिति धर्मिणि पिण्डकपालयोरभाव इति कृत्वा धर्माणां पिण्डकपालादीनामध्वत्रयानुपपत्तिरिति परिशङ्कमानः


  1. स्यां व्यक्तौ
  2. पञ्चशिखाचार्येण
  3. -दा तत्र तस्य