पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/294

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४९
विभूतिपादः तृतीयः

 तदेतदनिर्ज्ञाय पराभिप्रायं विरोधोदाहरणत्वापादानम् अन्धदर्पणीयवृत्तान्तमुद्भावयति । यथा किल कश्चिदन्ध: स्वां अदर्शनशक्तिं अनवधार्य स्वार्थमादर्शमुपार्जयति तद्वदेतदाभाति ॥

 अपि च यद्यप्येकत्रैव व्यक्तौ शक्तौ वा नित्यत्वमनित्यत्वं च अध्यारोप्य त्वं पक्षसिषाधयिषया ब्रवीथाः, एवमपि विरुद्धोदाहरणत्वं न संभवति, विपरीता(त)साधनात् । कथम् ? अपेतोऽप्यस्ति इति नित्यत्वप्रतिषेधात् इत्युच्यते । नित्यत्वप्रतिषेधात् इति अनित्यत्वादित्युक्तं भवति । अपेतस्याप्यस्तित्वं नित्यत्वमुच्यते । नित्यत्वस्य विपरीतमनित्यत्वम् । न च पक्षस्यानित्यत्वस्य अनित्यत्वं हेतुर्भवति, यो विपरीतं साधयन् नित्यत्वं विरुन्धीत । न ह्यनिष्टमसाधयन् विरुद्धतामियात् ॥

 अथापि नित्यत्वप्रतिषेधो नाम आत्मलाभात् प्रच्युतिरिति विक(ल्पस्य)ल्प्यं वावद्येथाः--एवमपि शब्दभेदमात्रं(त्रात्) नार्थभेदः । आत्मलाभात् प्रच्युतिः, अनित्यत्वं, इत्येकोऽर्थः ॥

 अथापि नित्यत्वोपपत्त्यभावादित्यवलम्बेथाः-एवमपि नित्यत्वप्रतिषेधात् इत्ययं शब्दः (एकस्यां शुक्तिकायां) नित्यत्वोपपत्त्यभावादित्यस्यार्थस्य [अ]वाचकः ॥

 अथापि वाचक इत्यारोप्य प्रतिभाषेत--एवमपि शक्तिव्यक्तिधर्मधर्मिभे(दरूपेण)दे न नित्यत्वमनित्यत्वं(त्यरूपं) चेत्युक्तमेव समाधानम् ॥

 एतेन व्यक्तेः अपेतोऽप्यस्ति, विनाशप्रतिषेधात् इति विरोधोद्भावनं प्रत्याख्यातम् ॥

 एवमवस्थिते व्यक्तेरपेतस्य प्रत्यक्षेणानुपलभ्यमानस्य कथमस्तित्वम् ? यावता, नास्ति, अनुपलभ्यमानत्वात्, नभःकुसुमवत् इति ॥

 अत्रोच्यते--अनुपलब्धिरसिद्धो हेतुः । अनुमानागमाभ्यामुपलब्धे: । यदेतत् व्यक्तं एतत् प्रागुत्पत्तेरप्यस्ति, यत उत्पद्यते । असच्चेन्नोत्पद्येत, शशविषाणवदेव ।

 किं च-असतः सत्त्वे सतश्चासत्त्वे सर्वत्र न आश्वस्युः । किं च--अनुपलब्धेश्चेदसत्वं मुक्तात्मकारणादीनां च प्रागुपलम्भादूर्ध्वं च अस्तित्वं केन लभ्यते ? तथा ‌-

32