पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/292

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४७
विभूतिपादः तृतीयः



[ भाष्यम् ]

अयमदोषः । कस्मात् १ [१]एकान्तानभ्युपगमात् । तदेतत् त्रैलोक्यं व्यक्तेरपैति । नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति । विनाशप्रतिषेधात् ।



[ विवरणम् ]

 अत्राह-अयमदोषः । कस्मात् ? एकान्तानभ्युपगमात् अत्यन्तकौटस्थ्यविनाशयोः धर्मिणोऽनभ्युपगमात् । यद्यत्यन्तं कूटस्थो धर्मी स्यात् आत्मवत्, ततश्च अस्माद्धर्मिणो धर्माणामभेदात् कौटस्थ्यं प्रसज्येतेति दोषः स्यात् । न तु धर्मिणां गुणानामत्यन्तकौटस्थ्यमभ्युपगम्यते । परिणामिनित्यत्वं हि गुणानां वदिष्यति ॥

 अथ वा, धर्मधर्मिणोः एकान्तभेदाभेदानभ्युपगमात् । एकान्तेन हि धर्मिभ्योऽन्वयिभ्यो धर्माणां[अ]भेदे कौटस्थ्यं प्राप्नुयात् । अत्यन्तभेदे वा धर्माणां अत्यन्तविनाशः स्यात् । न त्वत्यन्तभेदाभेदावभ्युपायिष्येते । तस्मात् न कौटस्थ्यदोष इति ॥

 कथं कौटस्थ्याभाव इत्याह--तदेतत् त्रैलोक्यं व्यक्तेरपैति, न कूटस्थम् । कस्मात् ? नित्यत्वप्रतिषेधात् । कार्यत्वादेव हि नित्यत्वं प्रतिषिद्धम् । अथात्यन्तविनष्टमिति चेदाह---अपेतमप्यस्ति, विनाशप्रतिषेधात् । कारणस्य नित्यत्वात् तदभेदाच्च कार्यस्य अत्यन्तविनाशः प्रतिषिद्ध एव ॥

 ततश्च यदुच्यते कैश्चित्-विरुद्धहेत्वाभासोदाहरणमेतदिति, कथं ? यथा--'असौ विकारो व्यक्तेरपैति, नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति, विनाशप्रतिषधोत्' इत्यत्र नित्यत्वप्रतिषेधात् इत्ययं हेतुः 'अपेतोऽपि विकारोऽस्ति इत्यनेन सिद्धान्तेन विरुध्यते ॥

 कथम् । व्यक्तिरात्मलाभः, अपायः प्रच्युतिः, यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति, नित्यत्वप्रतिषेधो नोपपद्येत । यत्तु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति ॥

 नित्यत्वप्रतिषेधो नाम विकारस्यात्मलाभात् प्रच्युतिः । यदात्मलाभात्, प्रच्यवते तदनित्यम् । यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं च आत्मलाभात् प्रच्युतिश्चेति विरुद्धावेतौ धर्मौ सह न सम्भवतः । सोऽयं हेतुः ये सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति विरुद्धो हेतुरिति ॥


  1. एकान्तताऽनभ्युपगमात् ।