पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/290

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२४५
विभूतिपादः तृतीयः



[भाष्यम् ]

 तथा अवस्थापरिणामः । [१]निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति, दुर्बला व्युत्थानसंस्काराः, इत्येवं (ष) धर्माणामवस्थापरिणामः ।

 [२]धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामपि अवस्थाभिः परिणाम इत्येवं धर्मलक्षणावस्थापरिणामैः[३] अशून्यलक्षणं गुणवृत्तमवतिष्ठते । चलं[४] गुणवृत्तम् । गुणस्वाभाव्यं तु प्रवृत्तिकारणमुक्तं गुणागाम् इति ।

 एतेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः पूरिणामो वेदितव्यः

[ विवरणम् ]

 तथा अवस्थापरिणामः परिदृश्यते । कथम् ? निरोधक्षणेषु निरोधे वर्तमाने निरोधसंस्कारा बलवन्तो भवन्ति। संस्कारबलवलत्त्वेन निरोधबलवत्त्वमपि । दुर्बला व्युत्थानसंस्काराः, तत एव व्युत्थानदुर्बलत्वमपि । तथा व्युत्थानलक्षणे व्युत्थानसंस्कारबलीयस्त्वं निरोधसंस्कारदुर्बलत्वम्, इत्येवं प्रतिक्षणं दृढदुर्बलावत्थाभ्यां युज्यमानानां धर्माणां अवस्थापरिणामः ॥

 तत्र केन रूपेण कस्य परिणाम इति दर्शयति-धर्मिणो धर्मैः परिणामः । यथा चित्तस्य धर्मिणो निरोधव्युत्थानादिधर्मैः । धर्माणां त्र्यध्वनां लक्षणैः परिणामः । यथा निरोधादिचित्तधर्माणां अनागतादिलक्षणैः। लक्षणानामप्यवस्थाभिः परिणामः । यथा वर्तमानादिलक्षणानां दृढदुर्बलत्वाद्यवस्थाभिः । इत्येवं धर्मलक्षणावस्थापरिणामैः अशून्यलक्षणम् अशून्यरूपं गुणवृत्तमवतिष्ठते ॥

 चलं गुणवृतम् । एतदेव तु गुणस्वाभाव्यं प्रवृतिकारणं सकलव्यापारकारणं उक्तं गुणानां सत्त्वादीनाम् इति । एतेन चेतसि प्रसिद्धेन धर्मलक्षणावस्थापरिणामत्रितयेन भूतेन्द्रियेषु धर्मधर्मिभेदात् त्रिविधः परिणामो वेदितव्यः ॥


  1. तत्र नि-
  2. तत्र ध-
  3. -मैः शून्यं न क्षणमपि गु-
  4. -लं च गु-