पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/284

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



विभूतिपादः तृतीयः

२३९

[ सूत्रम् ]

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयी निरोधपरिणामः॥ ९ ॥

[ भाष्यम् ]

 'व्युत्थानसंस्कारः चित्तधर्मो न स प्रत्ययात्मक इति प्रत्ययनिरोधे न निरुद्धः ।निरोधसंस्कारोऽपि चित्तधर्मः ।तयोरभिभवप्रादुर्भावौ। व्युत्थान संस्कारा हीयन्ते निरोधसंस्कारा अधीयन्ते । निरोधक्षणं चित्तमन्वेति । तदेकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं निरोधपरिणामः ।

[ विवरणम् ]

 निरोधस्य (त्रिक्षणं)क्षणे हि निरोधधर्ममन्वीयमानं चित्तं निरुध्यते । चलं गुणवृत्तं गौणं चित्तं गुणवृत्तं चलम् इति अवश्यंभावी तस्य बाह्यवृत्तिभ्यो निरुध्यमानचित्तस्य परिणामः । न ह्यपरिणममानस्य चित्तस्य पुरुषवत् कौटस्ध्ये निरोध उपकल्पते ! ततश्वाह-कीदृशस्तदा निरोधपरिणाम इति ॥  व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः । व्युत्थानं विविधमुत्थाने चलने प्रत्ययाकारेण चित्तस्य । तदुपजनितः संस्कारश्चित्तस्य धर्मिणो धर्मः | न स प्रत्ययात्मकः ॥

 तथा निरोधजन्मा संस्कारः अप्रत्ययात्मकः चित्तस्यैव धर्मः । स च व्युत्थानसंस्कारोऽप्रत्ययात्मक इति स प्रत्ययनिरोधे न निरुध्यते । व्युत्थानप्रत्ययानिरोधे नाभिभूतः॥

 प्रत्ययनिरोधाच्च निरोधजः संस्कारः सञ्जायते । तयोः व्युत्थाननिरोधसंस्कारयोः धर्मिणि चित्ते वर्तमानयोः अभिभवप्रादुर्भावौ भवतः ॥

 किं तावाविभवतिरोभावौ अनियमेन भवतः ? न । कथं तहिं। 'व्युत्थानसंस्कारा हीयन्ते स्वकार्यक्षमत्वमुपाश्नुवते । निरोधसंस्कारा आधीयन्ते । तौ चाभिभवप्रादुर्भावौ निरोधक्षणं चित्तं धर्मित्वेन अन्वेति ?' स तयोरभिभवप्रादुर्भावयोश्चित्तेनानुगमो निरोधपरिणामश्चित्तस्य ॥

 तत् एतदभिहत भवति--एकस्य चित्तस्य प्रतिक्षणमिदं संस्कारान्यथात्वं व्युत्थानसंस्काराभिभवेन निरोधसंस्कारप्रादुर्भावेन संस्कारान्यथात्वम्| व्युत्थानसंस्काराणामपि हीयमानतया सत्यपि सम्बन्धे प्रादुर्भावता निरोधेनैव बलवत्त्वात् निरोधपरिणाम इति समाख्यातम् ।

 1. व्युत्थानसस्काराः चित्तधर्मा: न ते प्रत्ययात्मका: इर्ति प्रत्ययनिरोधे न निरुद्धाः । निरोधसंस्कारा अपि चित्तधर्माः |