सामग्री पर जाएँ

पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/282

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

विभूतिपादः तृतीयः २३७

[ भाष्यम् ]

'अन्यैथवाधिगतत्वात् । भूमेरस्या इयमनन्तरा भूमिः इत्यत्र योग एव उपाध्यायः । कथम्? । एवं ह्युक्तम्‌---  “ योगेन योगो ज्ञातव्यो योगो योगात् प्रवर्तते । अप्रमत्तस्तु योगेन योगेषु रमते चिरम् ॥” इति ॥ ६ ॥

[ सूत्रम् ]

 त्रयमन्तरङ्गं पूर्वभ्यः ॥ ७ ॥

[ भाष्यम् ]

 तदेतत् धारणाध्यानसमाधित्रयम् अन्तरङ्गं सम्प्रज्ञातस्य समाधेः पूर्वेभ्यो यमादिभ्यः पञ्चभ्यः साधनेभ्य इति ॥ ७ ॥

[ विवरणम् ]

 अन्येषां व्याख्यानम्-अर्थस्य परचित्तज्ञानादेः। अन्यथैवाधिगतत्वात् आत्माद्युत्तरभूमिसमधिगमनेनैव अधरपरचित्तज्ञानादिभूमेरर्थस्य अधिगतत्वात् इति ॥

 अस्मिन् पक्षे ‘अधरभूमिषु संयमोऽनथैक' इति वदितव्यमभविष्यत्, न 'न युक्तः' इति । ‘न युक्त' इत्येतदसमीचीनमिव दृश्यते ॥

{{gap}}भूमेरस्या इयमनन्तरा भूमिः इयमनन्तरं जयनीयेति कथमवभोत्स्यत इत्याह--तत्र योग एवोपाध्यायः । योगः पूर्वभूमौ संयमलाभः । तेनैवानन्तर्यमवगम्यते ॥

 कथम् ? एवं ह्युक्तम्-योगेन योगो ज्ञातव्यः । पूर्वसंयमलाभेन योगेन अनन्तरो योगविषयः प्रज्ञानीयः । स च योगः संयमः, योगात् एव पूर्वसंयमलाभादेव प्रवर्तते विविच्यते ॥

 यथैव जनुषा अन्धकस्य सोपानपङ्क्तमारुरुक्षतः प्रथमसोपानप्रति लब्धपदस्पर्शप्रत्ययेनानन्तरसोपानज्ञानमुप्लोष्यते तथा योगो योगात् प्रवर्तते ॥

 यत एवं तस्मात् स इत्थं जानन् अप्रमत्तस्तु योगी योगेन युक्तः सन् योगेषु योगैश्वर्यफलेषु रमते, चिरम् इति । ६ ।

 त्रयमन्तरङ्गं पूर्वेभ्यः । धारणाध्यानसमाधत्रयम् अन्तरङ्गं पूर्वेभ्यः पञ्चभ्यः साधनेभ्यः यमादिभ्यः सम्प्रज्ञातस्य योगस्य । तत्रान्तरङ्गग्रहणं पूर्वसाधनासम्पत्तावप्यत्र त्रये आदरः करणीय इत्येवमर्थम् ॥


 1. अन्यत एवाधि  2. योSप्रमत्तस्तु योगेन स योगे रमते चिरम्।