[ सूत्रम् ]
ततः क्षीयते प्रकाशावरणम् ॥ ५२ ॥
[ भाष्यम् ]
प्राणायामानभ्यस्यतोऽस्य योगिनः क्षीयते विवेकज्ञानावरणीयं कर्म । यत्तदाचक्षते-‘महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्वमावृत्य तदेवाकार्ये विनियुङ्क्ते’ इति | तदस्य प्रकाशावरणं कर्म संसारनिबन्धनं प्राणायामाभ्यासबलात् दुर्बलं भवति, प्रतिक्षणं च क्षीयते । तथा चोक्तम् ‘तपो न परं " प्राणायामात् ततो विशुद्धिर्मलानां दीप्तिश्च ज्ञानस्य’ इति॥ ५२ ॥
किञ्च-
[ सूत्रम् ]
धारणासु च योग्यता मनसः ॥ ५३ ॥
[ भाष्यम् ]
प्राणायामाभ्यासादेव । ’ प्रच्छर्दनविधारणाभ्यां वा प्राणस्य’ इति वचनात् ॥ ५३ ॥
[ विवरणम् ]
ततः क्षीयते प्रकाशावरणम् । प्रकाश आव्रियते येन तत् प्रकाशावरणं कर्म । प्राणायामानभ्यस्यतो योगेनो विवेकज्ञानमाव्रियते येन तत् विवेकज्ञानावरणीयं कर्म । यत्तु आचक्षते शास्त्रान्तरे "महामोहमयेनेन्द्रजालेन प्रकाशशीलं सत्त्वमावृत्य तदेवाकार्ये विनियुङ्क्ते” इति ॥
यदाव्रियते विपर्ययज्ञानमहेन्द्रजालेन तदेव सत्त्वमावरणकर्मणा सर्वाकार्ये विनियुज्यते । तत् प्राणायामाभ्यासादस्य प्रकाशावरणं कर्म संसारनिबन्धनं दुर्बलं भवति । न केवलं दुर्बलभाव एव, प्रतिक्षणं च क्षीयते ॥
तथा चोक्तम्-’न परं प्राणायामात्तपः’ इति । तस्मात् ततः प्राणायामात् रजस्तमःकार्याणां विशुद्धिर्मलानां, दीप्तिश्च ज्ञानस्येति ॥५२॥
किं च-भवत्यन्यदपि प्राणायामाभ्यासात् ।धारणासु वक्ष्यमाणासु योग्यता मनसः प्राणायामादेव । [१]’प्रच्छर्दनविधारणाभ्यां वा प्राणस्य’ इति वचनात् ताभ्यां हि मनसः स्थितिसम्पत्तिरुक्ता ॥ ५३ ॥
- ↑ यो. सू. पा. 1. सू. 34