पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/268

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२२३
साधनपादो द्वितीयः



[ भाष्यम् ]

 स्वाङ्गे जुगुप्सायां शौचमारभमाणः कायावद्यदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च, परैरसंसर्गः । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धिमपश्यन् कथं परका(की)यै- रत्यन्तमेवाप्रयतैः संसृज्येत ॥ ४० ॥

 किञ्च-

[ सूत्रम् ]

 सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि च ॥ ४१ ॥

[ भाष्यम् ]

 भवन्तीति वाक्यशेषः । शुचेः सत्त्वशुद्धिः, ततः सौमनस्यं, तत ऐकाग्र्यं, तत इन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्येतच्छौचस्थैर्यादधिगम्यत इति ॥ ४१ ॥

[ सूत्रम् ]

 सन्तोषादनुत्तमः सुखलाभः ॥ ४२ ॥

[ विवरणम् ]

{{gap}}यमेषु सिद्धय उक्ताः । इदानीं नियमेषु वक्ष्यामः--शौचात् स्वाङ्गजुगुप्सा परैरसंसर्गः । स्वाङ्गजुगुप्सया शौचमारभमाणः कायावद्यदर्शी शरीरगर्ह्यत्वदर्शी कायानभिष्वङ्गी यतिर्भवति । किञ्च-परैरसंसर्गो भवति । कायस्वभावावलोकी स्वमपि कायं जिहासुर्मृञ्जलादिभिराक्षालयन्नपि कायशुद्धि[१]मपश्यन् कथं परकायैरत्यन्तमेवाप्रयतैः संसृज्यत इति ॥ ४० ॥

 किं चान्यद्भवति । सत्त्वशुद्धिसौमनस्यैकाग्र्येन्द्रियजयात्मदर्शनयोग्यत्वानि चास्य भवन्ति । पूर्वस्य पूर्वस्य स्थैर्यादुत्तरस्याविर्भावः । कथम् ? शुचेः सत्त्वशुद्धिः । ततः सौमनस्यम्, तत ऐकाग्र्यम्, ततश्चेन्द्रियजयः, ततश्चात्मदर्शनयोग्यत्वं बुद्धिसत्त्वस्य भवतीत्यतः शौचस्थैर्यादधिगम्यत एतत् सर्वम् । ततश्चेयं शौचसिद्धिरेव ॥ ४१ ॥

 सन्तोषादनुत्तमः सुखलाभः । सन्तोषवितर्कानुत्पत्तौ अनुत्तमः न विद्यतेऽस्मादन्य उत्तमः ।

  1. अत्र आदर्शकोशे 'शुद्धि' इत्येतदुपरि 'फलं’ इत्यादि अत्र (219) पुटे मुद्रितं वाक्यं दृश्यते । तस्यानन्वयात्, आदर्शकोशे पुटद्वयव्यवहितं ‘मपश्यन्’ इत्यादि वाक्यं योजितम् ।