पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/262

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२१७
साधनपादो द्वितीयः


[ भाष्यम् ]

 एतेषां यमनियमानाम्

[ सूत्रम् ]

 " वितर्केबाधने प्रतिपक्षभावनम् ॥ ३३ ॥

[ भाष्यम् ]

 यदाऽस्य ब्राह्मणस्य हिंसादयो वितर्का जायेरन् , हनिष्याम्यहमपकारिणम्, अनृतमपि वक्ष्यामि, द्रव्यमप्यस्य स्वीकरिष्यामि, दारेषु चास्य व्यवायी भविष्यामि, परिग्रहेषु चास्य स्वामी भविष्यामीति, एवमुन्मार्गप्रवणवितर्कज्वरेणातिदीप्तेन बाध्यमानः तत्प्रतिपक्षान् भावयेत् । घोरेषु संसाराङ्गरेषु पच्यमानेन मया शरणमुपागतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् पुनः पुनस्तानाददानस्तुल्यः श्ववृत्तेनेति भावयेत् ।

[ विवरणम् ]

 तत्र यमनियमानां विरुद्धास्तर्काः वितर्काः, तैः बाधने सति प्रतिपक्षान् भावयेत् अभिधास्यमानेन प्रकारेण । अप्रतिभाव्यमाना हि वितर्का योगिनं । र्हिसादिषु प्रणिधापयेयुः ।

{{gap}}यदा अस्य ब्राह्मणस्य वितर्का हिंसादयो जायेरन् । तत्राहिंसादिवितर्का ये वा हिंसादयस्ते वितर्का: कीदृशा इति ? तत्राहिंसाया वितर्क: हिंसा हनिष्याम्यपकारिणमिति । तथा सत्यस्य अनृतं वदिष्यामीति विरुद्धः प्रत्ययो वितर्कः । तथैवास्तेयस्य वितर्कः द्रव्यमस्य स्वीकरिष्यामीति । तथा ब्रह्मचर्यस्य वितर्कः दारेषु चास्य गमिष्यामीति । तथैवापरिग्रहस्य वितर्क: परिग्रहेषु चास्य स्वामी भविष्यामीति ॥

 अस्येत्येतत् सर्वत्र हिंसादिषु अनुगमप्रतिपादनार्थम् । द्रव्यमस्य स्वीकरिष्यामीति परद्रव्यस्यात्मसंबन्धकरणम् । परिग्रहेषु चास्य स्वामीति परसंबन्धिष्वेव द्रव्येषु स्वयं स्वामीति । यथा कुमारनरपतिसचिवादीनाम् ।

{{gap}}इत्थमुन्मार्गहारिणा वितर्कज्वरेण दीप्तेन बाध्यमानस्तत्प्रतिपक्षान् भावयेत् ॥

 कथं भावयेदिति ? घोरेषु संसाराङ्गारेषु पच्यमानेन मया। शरणमभ्युपगतः सर्वभूताभयप्रदानेन योगधर्मः । स खल्वहं त्यक्त्वा वितर्कान् हिंसादीन् पुनस्तानाददानस्तुल्यः श्चवृत्तेनेति । शुन इव वृत्तं यस्य सः श्ववृत्तः । श्चवद्वा वृत्तः श्ववृत्तः । ते' तुल्य इति भावयेत् । यथा 28