पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/251

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०५
साधनपादो•द्वितीयः

[ माष्यम् ]

 सा विवेकख्यातिराविप्लवा हानोपायः ।। ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमः पुनश्चाप्रसव इत्येष मोक्षस्य मार्गो हानस्योपाय इति ॥ २६ ॥

[ सूत्रम् ]

 तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७ ॥

[ भाष्यम् ]

 तस्येति प्रत्युदितख्यातेः प्रत्याम्नायः । सप्तधेति, अशुद्ध्यावरणमलापगमात् चित्तस्य प्रत्ययान्तरानुत्पादे सति सप्तप्रकारैव प्रज्ञा विवेकिनो भवति ।  तद्यथा-परिज्ञातं हेयं नास्य पुनः परिज्ञेयमस्ति । क्षीणा हेयहेतवो न पुनरेतेषां क्षेतव्यमस्ति ।

[ विवरणम् ]

{{gap}}सा विवेकख्यातिः इत्थंभूता सती अविप्लवा भवति । यदैवमविप्लवा विवेकख्यातिः ततो मिथ्याज्ञानस्य दग्धबीजभावोपगमो विरुद्धत्वात् । पुनश्चाप्रसवः मिथ्याज्ञानस्य दग्धबीजभावोपगमादेव । तथा चोक्तम्—  "बीजान्यग्न्युपदग्धानि न रोहन्ति यथा पुनः ।  ज्ञानदग्धैस्तथा क्लेशैर्नात्मा सम्पद्यते पुनः ॥” इति ।

 सा च तादृशी विवेकख्यातिर्मोक्षस्य मार्गो हानस्योपाय इत्यर्थः ॥ २६ ॥

 उत्पन्नसम्यग्दर्शनस्य सम्यग्दर्शनोत्पत्तौ स्वानुभवप्रत्ययलिङ्गप्रकटीकरणार्थमाह---तस्य सप्तधा प्रान्तभूमिः प्रज्ञा । तस्येति प्रत्युदितख्यातेः प्रत्युत्पन्नसम्यग्दर्शनस्य प्रत्याम्नायः प्रत्यवमर्शः । सप्तधेति अशुद्धयावरणमलापगमात् । अशुद्धिरेवावरणं क्लेशाः कर्मणि च, तदेव मलं तस्यपगमात् चित्तस्य प्रत्ययान्तरानुत्पादे ममाहमिति च विरुद्धप्रत्ययान्तराणामनुत्पत्तौ । सप्तधेत्यस्य विवरणे सप्तप्रकारैव प्रज्ञा बुद्धिः विवेकिनो भवति ॥

 तान् सत प्रकारान् क्रमेणाचष्टे-यथा परिज्ञातं हेयं सर्वं दु:ख हेयं ज्ञातमुपपत्तिभिः । नास्य परिज्ञातव्यो दुःखप्रकारः

{{gap}}क्षीणा हेयहेतव इति बहुवचनप्रयोगात् क्लेशाः कर्माणि च अभिधीयन्ते । न पुनरेषां केशकर्मणामल्पमपि सम्यग्दर्शनपावकादग्धबीजा