[ भाष्यम् ]
अथ हानस्य कः प्राप्त्युपाय इति---
[ सूत्रम् ]
विवेकख्यातिरविप्लवा हानोपायः ॥ २६ ॥
[ भाष्यम् ]
सत्वपुरुषान्यताप्रत्ययो विवेकख्यातिः । सा तु अनिवृत्तमिथ्याज्ञाना प्लवते । यदा मिथ्याज्ञानं दग्धबीजभावं वन्ध्यप्रसवं सम्पद्यते, तदा विधूतक्लेशरजसः सत्त्वस्य परे वैशारद्ये परस्यां वशीकारसंज्ञायां वर्तमानस्य विवेकप्रत्ययप्रवाहो निर्मलो भवति ।
[ विवरणम् ]
ननु च अनियतविपाकस्य कर्मणः सद्भावे कथं हानं स्यात् ? पुनरनियतविपाककर्मणा शरीरस्यारम्भ इति । न—अभिहितप्रतिविधानत्वात् । सम्यग्दर्शनेन क्लेशबीजस्य दाहात् कर्मणामनारम्भकत्वमुक्तं दग्धबीजभावापनीततुषशालितण्डुलनिदर्शनेन ! तस्मात् न विदुषः कारणाभावाच्छरीरारम्भः ॥ २५ ॥
उक्तस्तृतीयो व्यूहः-आरोग्यस्थानीयो हानं नाम । अधुना चतुर्थं व्यूहं भैषज्यस्थानीयमुपाचिख्यासन्नाह-हानस्य कः प्राप्त्युपायः? इति ॥
ननु च कथं हानस्य प्राप्युपाय इति ? यावता नैव हानमवस्तुत्वात् प्राप्यम् ! बन्धनोपरम एव हि हानम् । नैष दोषः । यत्नसाध्यत्वादविद्यानिवृत्तेः यथा निगलभेदः । सम्यक्ख्यातौ सत्यामविद्यानिवृत्तिरिति हानमवस्त्वपि प्राप्यमित्युपचर्यते |
विवेकख्यातिरविप्लवा हानोपायः । का पुनर्विवेकख्यातिरित्याह-सत्त्वपुरुषान्यताप्रत्ययः सत्त्वपुरुषयोः साधर्म्यवैधर्म्ययाथात्म्यावबोध इत्यर्थः । सा तु विवेकख्यातिः अनिवृत्तमिथ्याज्ञाना विप्लुवत्ते न स्थिरीभवति, न कार्यक्षमेति ॥
तथा चोक्तम्--"यथा हेमाविपक्वं न विराजते । तथाऽपक्वकषायस्य विज्ञानं न प्रकाशते ||" तथा "कामग्राहगृहीतस्य ज्ञानमप्यस्य न प्लवः" । इति ॥
यदा तु मिथ्याज्ञानं दग्धबीजभावं दग्धबीजत्वादेव वन्ध्यप्रसवं कार्यारम्भाक्षमं सम्पद्यते, तदा विधूतक्लेशरजसः क्लेशा एव रजः विधूतं यस्य तद्विधूतक्लेशरजः तस्य सत्त्वस्य रागादिमलाकलङ्कितस्य पररयां वशीकारसंज्ञायां वर्तमानस्य ज्ञानप्रसादमात्रे वर्तमानस्य ! तदेवानुवदति-विवेकप्रत्ययप्रवाहः विवेकज्ञाननिरन्तरभावः निर्मलो भवति ॥