पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/249

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
२०६
साधनपादो द्वितीयः

[ भाष्यम् ]

 हेयं दुःख हेयकारणञ्च संयोगाख्यं सनिमित्तमुक्तम् । अतः परं हानं वक्तव्यम्---

[ सूत्रम् ]

 तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥२५॥

[ भाष्यम् ]

 तस्यादर्शनस्याभावात् बुद्धिपुरुषसंयोगाभावः । आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् । तत् दृशेः कैवल्यम् । पुरुषस्यामिश्रीभावः, पुनरसंयोगो गुणैरित्यर्थः । दुःखकारणनिवृत्तौ दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम् ॥ २५ ॥

[ विवरणम् ]

 चत्वारो व्यूहाः प्रकृताः । तत्र हेयं दुःखं 'हेयं दुःखमनागतम्' इत्युक्तम्। रोगस्थानीय एक व्यूहो व्याख्यात इत्यर्थः । हेयकारणं च सनिमितं संयोगाख्यमुक्तम् । द्वितीयो व्यूहो रोगहेतुस्थानीयो हेयहेतुस्त्वविद्यानिमित्तसाहितः प्रधानपुरुषसंयोग उपवर्णितः । उक्तपरिकीर्तनं च सोपपत्तिकोक्तेस्तद्विषयाकाङ्क्षानिवृत्त्यर्थम् ॥

 अतः परं हानम् आरोग्यस्थानीयं मोक्षशास्त्रप्रयोजनं वक्तव्यम् । वक्ष्यमाणसंकीर्तनं च श्रोतृबुद्धिसमाधानार्थम् । तदभावात् संयोगाभावो हानं तत् दृशेः कैवल्यम् ॥  तदिति पूर्वप्रकृताया अविद्यायाः प्रत्यवमर्शः । तस्यादर्शनस्य अविद्याया अभावात् बुद्धिपुरुषसंयोगस्य दुःखहेतो: अभावः आत्यन्तिको बन्धनोपरम इत्यर्थः । एतत् हानम् आरोग्यस्थानीयम् । तत् दृशेः कैवल्यं तदेव हानं आत्यन्तिको बन्धनोपरमः दृशेः पुरुषस्य कैवल्यम् । अस्य व्याख्यानं पुरुषस्यामिश्रीभावः पुनरसंयोगो गुणैरित्यर्थः ॥

 पदार्थं व्याख्याय वाक्यार्थमिदानीं दर्शयति-दुःखकारणनिवृत्तौ । दुःखोपरमो हानम् । तदा स्वरूपप्रतिष्ठः पुरुष इत्युक्तम्---1"स्वरूपप्रतिष्ठा वा चितिशक्तिः" इति |


1. यो. सू. पा. 4. सू. 34.