पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/245

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९९
साधनपादो द्वितीयः

[ भाष्यम् ]

  दर्शनशक्तिरेवादर्शनमित्येके ।। **प्रधानस्यात्मख्यापनार्था प्रवृत्तिः? इति श्रुतेः ! सर्वबोध्यबोधसमर्थः प्राक् प्रवृत्तेः पुरुषो न पश्यति, सर्वकार्यकरणसमर्थं दृश्यं तदा न दृश्यत इति ।

 उभयस्याप्यदर्शनं धर्म इत्येके । तत्रेदं दृश्यस्य स्वात्मभूतमपि पुरुषप्रत्ययापेक्षं दर्शनं दृश्यधर्मत्वेन भवति । तथा पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं पुरुषधर्मत्वेनैवादर्शनमवभासते ॥

 दर्शनं ज्ञानमेवादर्शनामिति केचिदभिदधति ।

[ विवरणम् ]

 न्यायः । प्रकृत एवाधुना निरूप्यते । दर्शनशक्तिरेवादर्शनमित्येके । दर्शनस्य शक्तिरनभिव्यक्तावस्था बीज इवानभिव्यक्ताङ्कुरावस्था तदेतददर्शनमित्येके मन्यन्ते । कुतः? प्रधानस्यात्मप्रख्यापनार्था प्रख्यापने दर्शनमाख्यायमानरूपता तस्यै तददर्शनमिति श्रुतेः ॥

 अस्मिन् पक्षे तदेवानाभिव्यक्तात्मकं शक्तिरूपमदर्शनं तदेव चाभिव्यक्तं दर्शनमिति स्वात्मनि विरोधानुपपत्तेर्दर्शनाददर्शनस्य निवृत्त्यनवक्लृप्तिः ॥

 तथा दर्शनान्तरं-सर्वबोधसमर्थः बोधात्मकत्वात् प्राक् प्रवृतेः प्रधानप्रवृत्तेः प्राङ्न पश्यति दशैनात्मकोऽपि सन् पुरुष इति । सर्वकार्यकरणक्रियासमर्थं दृश्यं प्रधानं न तदा प्राक्प्रवृत्तेः परमार्थमपि सत् दृश्यत इत्युभयस्य प्रधानपुरुषयोरदर्शनं धर्म इत्येके मन्यन्ते ॥  अत्राप्युभयोरपि प्रागवस्थैवादर्शनमुत्तरकालावस्था च दर्शनमिति पूर्वदोषः स्थित एव । दृश्यस्यात्मभूतमव्यतिरिक्तमपि पुरुषप्रत्ययापेक्षं पुरुषाकारेण पुरुषस्य न दृश्यते । पुरुषाकारविशिष्टतया वा पुरुषस्य दृश्यत इति पुरुषप्रत्ययापेक्षमदर्शनं पुरुषस्य धर्मत्वेन भवति । तदेतत्स्पष्टयति---पुरुषस्यानात्मभूतमपि दृश्यप्रत्ययापेक्षं दृश्यप्रत्ययोऽज्ञानं तदपेक्षं, कथं पुरुषाकारेणादर्शनात् संकरेण वा दर्शनादन्तःकरणप्रत्ययापेक्षं पुरुषानात्मभूतमपि पुरुषधर्मत्त्वेनैवादर्शनमाभासते । तथा च सति दृश्यधर्म एवायमित्यदोषः ॥