पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/243

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९७
साधनपादो द्वितीयः

[ भाष्यम् ]

 किं गुणानामधिकारः?

 आहोस्वित् दृशिरूपस्य स्वामिनो दर्शितविषयस्य प्रघानचित्तस्या नुत्पादः, स्वस्मिनं दृश्ये विद्यमान यो दर्शनाभावः ?  किमर्थवत्ता गुणानाम् ?

[ विवरणम् ]

स्वाभिमतपक्षनिश्चिचीषया । परपरिकल्पितवस्तुखण्डिमानमापादयता हि निजाभिमतनिरूपितवस्तु द्रढिमानमतितरामानीयते ।

 किंचेदमिति सर्वैरेव विकल्पैर्वक्ष्यमाणैरभिसंबन्धनीयम् । किं गुणानामधिकार इति, सामान्येन परिपृष्टस्य विशेषपर्यनुयोगः । अधिकृतिराधेकारः, गुणाना प्रवृत्तिः ।

 ननु गुणानामधिकारस्य कथमदर्शनाशङ्का : उच्यते-अर्थद्वारेण भवत्येवादर्शनमधिकारः । यावद्धि गुणानां प्रवृत्तिस्तावद्वन्धः । बन्धकारणमविद्येति स्थितिस्थैर्यमानीयते । शब्दद्वारेणापि-दर्शनादन्यददर्शनं यदा, भवत्येव तदानीमाशङ्का | गुणधिकारो हि दर्शनादन्य एवेति ।

 आहोस्विद्दृशिस्वरूपस्य स्वामिनो दर्शितविषयस्य चित्तस्यानुत्पादः! इह तु पूर्वपदार्थप्रधानत्वमदर्शनस्य गृहीत्वा शङ्क्यते । चित्तस्यानुत्पाद: प्रागुत्पतेर्दर्शनस्याभावः । किमुक्तं भवत्यनुत्पाद इत्यत आह-स्वस्मिन् दृश्ये चित्ते विद्यमाने यो दर्शनाभावः गुणपुरुषान्तरदर्शनानुत्पत्तिरदर्शनमिति ॥

 किंमर्थवता गुणानां भेोगापवर्गाभ्यां या गुणानामर्थवता तददर्शनमिति । अत्र त्वर्थद्वारेणैवाशङ्का । प्रयोजनवतो हि प्रयोजनमवश्यकृत्यमिति ॥

 कः पुनरेषु पक्षेषु दोषः ? उच्यते-यद्यधिकारो गुणानामदर्शनं विद्यानर्थक्यं प्राप्तन् । न ह्यस्मिन् पक्षे विद्या प्रत्यनीकभूता स्याददर्शनस्य। यस्माद्विद्याधिकारयोरविरोधः, अतश्चानिर्मोक्षः प्रसक्तः ! पुनः पुनः प्रयोजनवत्तया प्रवृत्तिसंभवात् |

 गुणार्थवत्ता अदर्शनमिति पक्षेऽप्येष एव दोषः । तथा चित्तस्यानुत्पादपक्षेऽ प्येष एव । अनुत्पादो हि दर्शनाभावः, तस्य चावस्तुत्वाद्विद्यया निवृतिरनुपपन्नेति । अभावे हि सति प्रत्यनीकविधानमनर्थकमेव ।