पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/239

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९३
साधनपादो द्वितीयः



[ सूत्रम् ]

 तदर्थ एव दृश्यस्यात्मा ॥ २१ ॥



[ भाष्यम् ]

 दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति तदर्थ एव दृश्यस्यात्मा भवति । स्वरूपं भवतीत्यर्थः | [ततश्च] स्वरूपं तु पररूपेण

[ विवरणम् ]

"अपरिणामिनी भोक्तृशक्तिः-दृक्छक्तिर्यथाव्याख्यातरूपा अप्रतिसङ्क्रमा च परिणामिन्यर्थे बौद्धे प्रत्यये प्रतिसङ्क्रान्तेव प्रत्ययविषयत्वात् तद्वृत्तिमनुपतन्तीव अस्या बुद्धेर्वृत्तिमनुपतन्तीव द्रष्ट्रत्वादुपलभमाना। बौद्धः प्रत्ययो जायमान एव दृक्छक्तेः कर्मतामापद्यते । तमनुपतन्त्युपलभमाना भोक्तृशक्तिः तस्याश्च प्राप्तचैतन्योपग्रहरूपायाः प्राप्तं चैतन्योपग्रहरूपं पुरुषोपग्रहरूपं यया बुद्धिवृत्या आसादितं पावकोपग्रहरूपतप्तलोहपिण्डवद्दृशिकर्मत्वादेव अनुकारमात्नतया बुद्धिवृत्तिसारूप्यमात्रतया बुद्धिवृत्यविशिष्टा ज्ञवृत्तिरिति ज्ञ एवोपलब्धिरेव वृत्तिरित्याख्यायते ॥ २० ॥

 तदर्थ एव दृश्यस्यात्मा तच्छब्देन द्रष्टा दृशिमात्रः शुद्धो यथाधिगतात्मा प्रत्याम्नायते । तदर्थः तस्मै तदर्थस्तत्प्रयोजनः दृशिकर्मत्वार्थ इत्यर्थः । भोगरूपेणापवर्गरूपेण च । कोऽसावित्याह-दृश्यस्यात्मा प्रधानस्यात्मा स्वरूपं स्वरूपलाभ इति ।

 ननु चतुर्व्यूहत्वं व्याचिख्यासितं किमर्थमेतदप्रकृतमुच्यते। नैष दोषः । आत्यन्तिकदुःखनिवृत्तिप्रयोजनस्य प्रकृतत्वात् । कथं दृश्यतादर्थ्यलाभावधारणेनात्यन्तिकी दुःखविरतिरुक्ता भवेदिति । उच्यते-यदि दृश्यस्वरूपप्रतिलंभस्तदर्थ एव, तदा अशेषतदर्थविरतौ पुनः कृतार्थत्वात् कार्याभावादात्यन्तिकदृश्यविरतिः स्यात् । तस्य पुनः प्रवृत्तौ प्रयॊजनाभावात् । न हि कृतमेव पुनः करणीयकमुपाश्नुते | अथ तु स्वार्थोऽपि दृश्यस्यात्मलाभोऽभविष्यदतः स्वार्थस्य भावात् पुनः पुनः प्रावर्तिष्यत । ततश्च नात्यन्तिकी निवृत्तिः ! तस्मात्तादर्थ्यमेवावधार्यते ॥

 दृश्यात्मलाभस्य स्वार्थाभावश्च दृश्यस्य भोग्यत्वात् ओदनादिवत् सिद्धः, अचेतनत्वात् संहत्यकारित्वाच्च। तदाह-दृशिरूपस्य पुरुषस्य कर्मविषयतामापन्नं दृश्यमिति । इतिशब्दो हेत्वर्थे । तदर्थ एव दृश्यस्यात्मा भवति स्वरूपं भवतीत्यर्थः । पुरुषार्थ एव प्रधानस्यात्मलाभो दृशिकर्मतापत्तेरोदनादिवत् ॥  25