पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/238

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१९२
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

तथा सर्वार्थाध्यवसायकत्वात् त्रिगुणा बुद्धिः, त्रिगुणत्वादचेतनेति । गुणानां तूपद्रष्टा पुरुष इत्यतो न सरूपः।।

 अस्तु तर्हि विरूप इति ! नात्यन्तं विरूपः। कस्मात्? । शुद्धोऽप्यसौ प्रत्ययानुपश्यो यतः। प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यन्न तदात्माऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम्[१]-‘‘अपरिणामिनी हि भोक्तृशक्तिरप्रतिसङ्क्रमा च परिणामेिन्यर्थे प्रतिसङ्क्रान्तेव तेद्वृतिमनु पतति | तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृत्तेरनुकारमात्रतया बुद्धिवृत्यविशिष्टा हि ज्ञानवृत्तिरित्याख्यायते ॥ २० ॥



[ विवरणम् ]

यथा प्रकाशयति सविता प्रकाशयिष्यति प्राचीकशदिति च प्रकाश्यभावाभावकृतो व्यपदेशः। शुद्धत्वादयो हेतवो वैधर्म्येण बुद्ध्यादयो दृष्टान्ताः ॥

 इतश्वासुरूपः।सर्वार्थाध्यवसायित्वाद्धोरशान्तादिसमस्तार्थावसायित्वात् त्रिगुणा बुद्धिः श्रोत्रादिवत् । गुणानां तूपद्रष्टेत्युपद्रष्टृत्वं हेतुः। अत्रिगुणः पुरुष इति प्रतिज्ञा । वैधर्म्येण बुद्ध्यादिरेव दृष्टान्तोऽत्रिगुणत्वाच्चासरूपः॥

 अस्तु तर्हि विरूप एव। ततश्चात्यन्तविरूपत्वाद्भोगानुपपत्तिरिति। अत्रोच्यते-नात्यन्तं विरूपः। कस्मात्? कोऽत्र हेतुः? न हि शुद्धस्य बुद्धिस्वरूपविरूपस्याशुद्धबौद्धप्रत्ययादत्यन्तावैरूप्यसिद्धये हेतुरित्यभिप्रायः॥

 न-बुद्धिप्रत्ययसाक्षित्वस्य सिद्धत्वात्। यतः शुद्धोऽप्यसौ बौद्धं प्रत्ययमनुपश्यति तच्च बौद्धप्रत्ययानुदर्शनं साधितम्। अनुपश्यतीति विषयाकारपरिणामे सति बौद्धं प्रत्ययं पश्यतीत्यर्थः। तमनुपश्यन्नपि न तदात्मा न त्रिगुणः। तदात्मक इव शान्तघोरमूढव्यवसायरूप इव प्रत्यवभासते। तस्मान्नात्यन्तविरूप: प्रवृत्तिसारूप्यात्। तत्र यदुक्तं बुद्धेः प्रतिसंवेदी पुरुष इत्युपपादयिष्यामः इति, तदुपपादितम् । तथा[२] च तत्सारूप्यमादर्शितम्। तथोक्तं तन्त्रे-

  1. पञ्चशिखेन
  2. अत्र आदर्शकोशे 'तथा' इत्येतदुपरेि 'स्वविषयवृत्तिसद्भावै:' इत्यादिः ग्रन्थः उपलभ्यते । तस्यानन्वयात् आदर्शकोशे (68) पुटेभ्यःप्राक् लिखितः ‘च तत्सारूप्यमादर्शितं' इत्यादिः ग्रन्थः योजितः।