पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/233

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१८७
साधनपादो द्वितीयः

[ भाष्यम् ]

लिङ्गमात्रमलिङ्स्य प्रत्यासत्रं, तत्र तत्संसृष्टं विविच्यते क्रमानतिवृत्तेः ।

[ विवरणम् ]

 यतश्चैतदेवं तस्मान्नित्या व्याख्यायते। यो हि पुरुषार्थप्रयुक्त: सोऽनित्यो दृष्टो यथा पृथिव्यादिः । न चैषा प्रधानावस्था पुरुषार्थप्रयुक्तेति नित्या व्याख्यायते ॥

{{gap}}त्रयाणां त्ववस्थाविशेषाणां विशेषाविशेषलिङ्गमात्राणामादौ पुरुषार्थता महदाद्यवस्था पुरुषार्थप्रयुक्ता । स चार्थः स च पुरुषारर्थो हेतुर्निर्मित्तंकारणमित्यनित्या व्याख्यायन्ते महदाद्यास्तिस्रोऽवस्थाः ॥

 गुणास्तु सर्वधर्मानुपातिनः सर्वविकारानुपातिनः । यथा सर्पः प्रांशुत्व- सर्पणकुण्डलत्वादिविशेषानुपाती, तथा विशेषादितत्वानुपतिनो गुणाः पिण्डप्रत्ययानुपातिनश्च न प्रलीयन्ते नोपजायन्ते । यथा सर्पः कुण्डलादित्वे प्रलीयमाने न प्रलीयते तदुपजने च नोपजायते तथैव गुणा अपि । यथा च घटपिठरादिषु प्रलीयमानेषु जायमानेषु च मृन्न प्रलीयते नापि जायते

 गुणा व्यक्तिभिरेव धर्मैरेवातीतानागतव्ययागमवतीभिस्त्रिलक्षणा- भिर्गुणान्वयिनीभिर्गुणोपादानकारणभिरुपजनापायधर्मका इवोत्पत्तिप्रलयवन्त इव प्रत्यवभासन्ते न स्वरूपेण विनश्यन्ति जायन्ते वा ॥

 एतस्यैवार्थस्य दृष्टान्तमाह-यथा देवदत्तो दरिद्राति । कस्मात् ? येनास्य म्रियन्ते गाव इति । गवामेव मरणात्तस्य दरिद्राणं न स्वरूपहाना दिति समः समाधिः तुल्यश्चर्चो दृष्टान्तेन दार्ष्टान्तिकस्य देवदत्तदरिद्राणवदेव गुणानुगताभिर्व्यक्तिभिर्महदादिभिर्गुणविमर्दनवैचित्र्यकृताभिर्विवर्धमानभिर्गुणाना- माढ्यता तत्प्रलये च तेषां दरिद्राणं, न स्वरूपेणापचय उपचयो वेति तुल्य: समाधिरिति ॥

 सर्वस्य प्रधानकार्यत्वे सतेि विशेषा अविशेषा वा कस्मादनन्तरं नोपजायन्त इति तदाह-लिङ्गस्यालिङ्गं प्रत्यासन्नं यथा मूलं वृक्षस्य प्रत्यासन्नं । बीजे संसुष्टं मूलमेव प्रथमतरं विविच्यते, न वृक्षस्योक्तरावस्था । एवं तव