साधनपादो द्वितीयः १८३
भवति । यथा मेरुदृश्वा मेरुदृश्वनीति । ततश्च विशेषादयः पर्वणः । केषां ते सम्बन्धिन इति? गुणानां पर्वणो गुणपर्वाणः । केषांचिदयमेव पाठो-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणीति ।
तत्राकाशवाय्वग्निजलभूमयो भूतानेि । शब्दतन्मात्रारब्धमाकाशम् । स्पर्शतन्मात्रेण शब्दस्पर्शलक्षणेनारब्धो वायु; । रूपतन्मात्रेण शब्दस्पर्शरूपलक्षणेनारब्धोऽग्निः ।। रसतन्मात्रेण शब्दस्पर्शरूपरसचतुष्टयलक्षणेनाऽऽप आरब्धाः । गन्धतन्मात्रेण शब्दस्पर्शरूपरसगन्धपञ्चतयलक्षणेन भूमिरारब्धा ॥
ननु च नित्यमाकाशम् , प्रागुत्पत्तेर्विनाशकालं च विशेषाभावात् । यो य उत्पत्तिमांस्तस्य तस्य पृथिव्यादेः प्रागुत्पत्तेर्विनाशोत्तरकालं च विशेषो दृष्टः । तथा आकाशं यद्युत्पत्तिमत् स्यात् प्रागुत्पत्तेर्विनाशोत्तरकालं च भवेद्विशेष: न च सोऽस्ति । तस्मादाकाशमनुत्पत्तिकम् ॥
अथावकाशदानाभावो विशेष इति चेन्न, मूर्तिमतोऽन्यस्याभावात्तुल्यं नित्यत्वेऽपि । अनित्यलक्षणाभावाच्च नित्यमाकाशम्, सर्वगतत्वादात्मादिवत् ॥
न-आगमाविरोधात् । "तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इत्यागमविरोधः । स्मृतिविरोधश्च । अवकाशं कुर्वति तदुपचारं इति चेन्न, वाय्वादिष्वप्युपचारप्रसङ्गात् । आकाशाद्वायुः सम्भूत इत्येकवाक्यत्वात् ॥
प्रागुत्पत्तेर्विशेषाभावादनित्यो न भवतीति च ब्रुवता विशेषाभावान्नित्यत्वमित्युक्तं भवति ! विशेषभावाच्चानित्यत्वमित्युक्तं भवति । तथा च सत्यात्मादीनामपि बन्धमोक्षोपलब्ध्यनुपलब्ध्यादिविशेषाभावात् सतो वैशेषिकस्य अनित्यत्वप्रसङ्गः । तथा, परमाण्वादीनां चानित्यत्वं प्रसज्येत ॥
अथाप्युत्पत्तिमत एव प्रागूर्ध्वं च विशेषभावाभावौ विवक्षिताविति चेत्- न - आकाशस्योत्पत्यभ्युपगमप्रसङ्गात् । अथाकाशोत्पत्तिवादिना विशेषो वक्तुं न शक्यत इति चेत्-न-पुरुषार्थसाधनासाधनत्वविशेषात् । सर्वगतत्वादिति चासिद्धो हेतुः ॥
1. तै उप 2, 1.