पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/211

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६४
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 कस्मात् ? अक्षिपात्रकल्पो हि विद्वानिति । यथोर्णातन्तुरक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति, न चान्येषु गात्रावयवेषु, एवमेतानि दुःखान्यक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति, नेतरं प्रतिपत्तारम् । इतरं तु [१]स्वकर्मोपहृतं दु:खमुपात्तमुपात्तं त्यजन्तं त्यक्तं त्यक्तमुपाददानमनादिवासनाविचित्रया चित्तवृत्या समन्ततोऽनुविद्धमिवविद्यया हातव्य[२] एवाहङ्कारममकारानुपातिनं जातं जातं बाह्माध्यात्मिकोभयनिमित्तास्त्रिपर्वाणस्तापा अनुप्लवन्ते ।

[ विवरणम् ]

 ननु चेतरस्यापि प्रतिकूलात्मकमेव, कस्मान्न तमुद्वेजयति । नात्यन्तक्लेशादिकालुष्याविवेककिणीकृतचेतस्त्वादितरमुद्वेजयति । न प्रतिकूलात्मकता प्रभाव्यते । यो हि दयितामुष्टिघातं मुद्गराभिघातदेशीयमपि मस्तकेन प्रतीच्छति । पुत्रस्य वा मूत्रपुरीषमुरसा धारयति । असावानन्दमहोदन्वत्तरङ्गायमाणः [णं] स्वात्मन्यपि न वातितराम् [स्वात्मानमपि न वेति तराम्] । न हि तस्य तत्प्रतिकूलात्मकम् । रागमेव हि तदितरस्य प्रतिपत्तृत्वादभिवर्धयति तराम् ॥

 ननु च योगिनोऽपि तत्समानं निमित्तं, कस्मात्तमुद्वेजयतीति । उद्वेजयत्येव तम् । कस्मात् ? अक्षिपात्रकल्पो हि सः । प्रसन्नत्वाद्विरक्तत्वादित्यर्थः । तस्मान्न समानं निमित्तं तस्य, यतोऽसौ विद्वानिति । न हि विदुषः क्लेशादिकालुष्याविवेकाकिणीकृतचेतस्त्वम् । न च तत्किर्णीकृतचेतस्त्वतिरस्कारादृते विद्वत्ता । तस्मादक्षिपात्रकल्पत्वाद्विद्वांसमेवोद्वेजयति, नेतरम् ॥

 तत्र दृष्टान्ताभ्यां विद्वदविदुषोरन्तरमाचष्टे--यथोर्णातन्तुरतिमृदुस्पर्शोऽप्यक्षिपात्रे न्यस्तः स्पर्शेन दुःखयति स्वच्छतरत्वादक्षिपात्रस्य, तथा योगिनं विविक्ततरप्रज्ञानमकलुषहृदयमुद्वेजयति दुःखम् । स एवोर्णातन्तुरन्येषु गात्रेषु क्षिप्तः खरतरसंस्पर्शेनापि न दुःखयति, तथा नेतरं प्रतिपक्षारं दुःखं पीडयति, क्लेशादिकिर्णीकृतचेतस्त्वात् कठिनतरेतरगात्रावयवकल्पो हि सः ॥

 तदिदमाह--एवमेतानि दु:खानि अक्षिपात्रकल्पं योगिनमेव क्लिश्नन्ति नेतरं प्रतिपत्तारम् । इतरस्य तु प्रतिपत्तुरितरगात्रावयवस्वभावतां दर्शयन्नाह--इतरं त्विति । तापा अनुप्लवन्त इत्येवमन्तेन वाक्यसमाप्तिः ॥


  1. "स्वकारणोपहृत कर्मतामापादितं" इति,
  2. "हातव्याहङ्कार" इति च विवरणाभिमत: पाठ: ।