पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/201

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५४
पातञ्जलयोगसूत्रभाष्यविवरणे


 तत्र कर्माद्यपेक्षया विरोधाददोष इति चेत्-इहापि विरोधादनभिव्यक्तिः सर्वकर्मणाम् । न चापि बीजाधारे क्षेत्रे उपमर्द्यमाने जलादिनिमित्तसंयोगे सत्यपि तद्गतानां बीजानां विरुद्धजातीयानामङ्कुरादिकार्यारम्भित्वम् । एवं मानुष्यकालीनाशयाधारेऽप्युपमर्द्यमाने, न विरुद्धजातीयदेवतैर्यग्योनाशयानां सर्वेषां युगपद्वृत्तिलाभः ॥

 न च प्रायणमेव कर्मणामभिव्यञ्जकम् । दृष्टजन्मवेदनीयानां भोगार्थानां दर्शनात् । येषां प्रायणमेवाभिव्यञ्जकं तेषां सर्वेषां भवत्वभिव्यक्तिरिति चेत्--न--विरोधाद्दैवतैर्यग्योनमानुष्यकाशयानाम् ॥

 प्रायणानां च भूतभविष्यत्कालविशेषैर्वेि(षावि)शेषोपपत्तेर्न सर्वकर्माभिव्यञ्जकत्वम् । प्रायणविशेषश्रवणाच्च प्रायणभेदः यथा-‘यं यं [१]वापि स्मरन्भावं त्यजत्यन्ते कळेबरम्' इति स्मरणविशेषभेदात् प्रायणभेदः । तस्मान्न सर्वकर्माभिव्यञ्जकत्वं प्रायणस्य । अन्यथा विशेषणानर्थक्यप्रसङ्गात् ॥

 न च स्मरणादिविशेषणेन प्रकृतस्यान्यथात्वं नाशो वा स्यात् । तन्नाशान्यथात्वकरणे हि स्मरणस्य प्रकृतकर्मसहकारित्वं न स्यात् । स्वतन्त्रं हि स्मरणं स्यात् । तथा चानुष्ठितकर्मनैरर्थक्यं भवेत् ।

 किंच-कललाद्यवस्थासु मृतानां मोक्षप्रसङ्गः । कर्मनारम्भात् । तासां फलत्ववत्त्कर्मत्वमपीति चेत्---न--करणाव्यूहात् । करणेषु हि व्यूहितेषु कर्मणां वृत्तिलाभः फलत्वं च । न तदा तद्व्यूह उपपद्यते ॥

 स्वप्नवदिति चेन्न । तत्रापि कर्मानभ्युपगमात् । श्रुतिश्च ‘स यत्तत्र किंचित्पश्यत्यनन्वागतस्तेन[२] भवति' इति कर्मणा स्वप्नदर्शनजेनासम्बन्धं दर्शयति । न कश्चित्स्वप्नैरपराधवानस्ति । ब्रह्महत्यादिकरणदर्शनात् । अथ स्कन्नप्रायश्चित्तादिदर्शनान्नेति चेन्न, रेतस्स्कन्दननिमित्तत्वात्प्रायश्चित्तस्य ॥

 तस्माद्यद्यपि स्वप्नाद्यवस्थायामिव कललाद्यवस्थासु फलमभ्युपगम्यते, तथाऽपि करणव्यापाराभावात् स्वप्नावस्थावदेव फलमात्रं तत्, न कर्मकर्तृत्वमिति मोक्षप्रसङ्ग एव गर्भप्रसृतानामापतित इति ॥


  1. भगवद्भता. 8. 6.
  2. बृ. उ. 4.3.15