पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/199

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 भवनिर्वर्तिताभिस्तु वासनाभिरनादिकालसंमूर्छितमिदं चित्तं विचित्रीकृतमिव सर्वतो मत्स्यजालं ग्रन्थिभिरिवाऽऽततमित्येता अनेकभवपूर्विका वासनाः । यस्त्वयं कर्माशय एष एवैकभविक उक्त इति । ये संस्काराः स्मृतिहेतवस्ता वासनाः, ताश्चानादिकालीना इति ।

 यस्त्वसावेकभविकः कर्माशयः स नियतविपाकश्चानियतविपाकश्च ।

[ विवरणम् ]

 अदृष्टजन्मवेदनीयस्तु द्विविधो नियतविपाकश्चानियतविपाकश्च । नियतविपाकस्तु प्रदर्शितः तस्माज्जन्मप्रायणान्तरे कृत इत्यादिना । यस्त्वनियतविपाकः स त्रिविधो वक्ष्यते ॥

 इदानीं तु कर्मविपाकजनितो वासनाराशिरपर आख्यायते-—क्लेशकर्मविपाकानुभवनिर्वर्तिताभिः क्लेशानुभवश्व कर्मानुभवश्च विपाकानुभवश्च क्लेशकर्मविपाकानुभवाः, तैर्निर्वर्तिताभिः वसनाभिः संस्कारैः अनादिकालसंमूर्छितमिदं चित्तं चित्रीकृतमिव पटकुड्यादिवत् सर्वतो मत्स्यजालं ग्रन्थिभिरिवाततं व्याप्तम् ॥

 अथैकैकस्मिन् जन्मनि अनेकभवपूर्विका वासनाः कर्मणि विपाके च तदङ्गीभावेन व्याप्रियन्ते । न हि वासनायाः कर्मविपाकानङ्गभावे सति जातमात्रस्य पृषदंशदारकस्य वृषयुवानं प्रति स्फुरितपरिकोपस्यावस्कन्दनं जाघटीति । न च सकृदनुभववासनामात्रतया तेन शक्यं भवितुम् ॥

{{gap}}यत्स्वयं कर्माशयः यस्त्वयं जन्मप्रायणान्तरे कृतोऽविरुद्धजन्मदेशनिमित्तः प्रधानोपसर्जनीभावेन त्रिविपाकारम्भी एष एवैकभविक उक्तः । न दृष्टजन्मवेदनीयः, नाप्यनियतविपक्तिरदृष्टजन्मवेदनीयः, नापि च वासनाः ।

 तासां तावत्स्वरूपमाह---ये संस्काराः स्मृतिहेतवस्ता वासनास्ताश्चानादिकालीनाः, संसारस्य क्लेशकर्मविपाकानुभवरूपस्यानादित्वात् ।

 यस्त्वसावेकभविकः कर्माशयः पूर्वोक्तस्तस्यापवाद उच्यते एकदेशस्य । कथं ? स नियतविपाकश्चानियतविपाकश्च । कोऽसौ नियतविपाकः ? यः प्रायणाभिव्यक्तः कार्यमारभते । स एव चैकभविकः ॥