पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/198

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१५१
साधनपादो द्वितीय:

[ भाष्यम् ]

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात्रिविपाकोऽभिधीयत इति । अत एकभविकः कर्माशय उक्त इति ।

 दृष्टजन्मवेदनीयस्त्वकविपाकारम्भी भोगहेतुत्वात्, द्विविपाकारम्भी वा आयुर्भोगहेतुत्वात् , [१]नन्दीश्वरवत्, नहुषवद्वेति । क्लेशकर्मविपाकानु-

[ विवरणम् ]

 तेन च कर्मणा भोगायुर्नेिर्वृत्तिर्भवत्येवेत्येवधार्यते । न पुनरन्यस्यायुर्भोगादिनिमित्तस्य पुत्रपशुकामादियागादेः पुत्रायुरादिप्राप्तेर्हेतुत्वं निराक्रियते । इतरथा हि सर्वश्रुतिस्मृतिविप्रकोपः स्यात् । तस्मात्तेनैव कर्मणेति जन्ममात्रमारभ्य कृतकार्यत्वाद्विनिवृत्त्याशङ्कानिषेधमात्रं क्रियते ॥

 असौ कर्माशयो जन्मायुर्भोगहेतुत्वात् त्रयो विपाका जन्मादयो यस्य स त्रिविपाकोऽभिधीयते । अयमैकभविकः कर्माशय उक्तः एक(एव)- जन्मप्रयोजन एकभविकः ।

{{gap}}दृष्टजन्मवेदनीयस्त्वेकविपाकारम्भी यथा-पुत्रग्रामादिकामयागः । द्विविपाकारम्भी वा भोगायुर्हेतुत्वात् । यथा आयुरादिकामयागः । त्रिविपाकारम्भी वा नन्दीश्वरनहुषवत् ॥

 ननु च नन्दीश्वरनहुषयोर्दृष्टजन्मवेदनीयत्वं त्रिविपाकारम्भित्वं च विरुद्धम् । दृष्टं हि जन्म नन्दीश्वरस्य मनुष्यत्वम् । यत्पुनर्नन्दीश्वरस्य देवत्वं, नहुषस्य चाजगरत्वं तत् द्वयमप्यदृष्टं, न हि मनुष्यत्व एव देवत्वं संवेद्यं नन्दीश्वरस्य, नापि देवत्व एव नहुषस्याजगरत्वं संवेद्यमिति, कथं त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेति ॥

 नैष दोषः । दृश्यमानजातिविशिष्टमेव शरीरं तयोर्जात्यन्तरत्वेन परिणतम् । न च यथाऽन्येषां दृष्टजातिविशिष्टशरीरोपमर्देन जात्यन्तरोपादाननिषेकादिनिमित्तापेक्षया जात्यन्तरप्राप्तिः, तथा नन्दीश्चरनहुषयोः । तस्मात् त्रिविपाकारम्भित्वं दृष्टजन्मवेदनीयत्वं चेत्युदाहृतम् ।

 तत्र त्रिविध: कर्मराशिर्दृष्टजन्मवेदनीयश्चादृष्टजन्मवेदनीयश्च । दृष्टजन्मवेदनीयस्त्वनियतविपाक: कदाचिद्भोगहेतुरित्येकविपाकः । कदाचिद्भोगायुर्हेतुत्वात् द्विविपाकः । कदाचित् जात्यायुर्भेगहेतुत्वात् त्रिविपाको नन्दीश्वरनहुषयोरिव ॥


  1. 'त्रिविपाकारम्भी वा जन्मायुर्भोगहेतुत्वात्' इत्यधिकः पाठः विवरणानुसारी।