पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/193

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१४६
पातञ्जलयोगसूत्रभाष्यविवरणे



[ भाष्यम् ]

क्षीणक्लेशानामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशय इति ॥ १२ ॥

[ सूत्रम् ]

   । सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३ ॥

[ भाष्यम् ]

 सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल: । यथा तुषावनद्धाः शालितण्डुलाः अदग्धबीजभावाः प्ररोहसमर्था भवन्ति,

[ विवरणम् ]

 कथं पुनर्नारकाणां कर्मारम्भस्तिर्यगादीनां देवतानां च ? मनुष्याणां हि कर्माधिकारः । एषा च कर्मभूमिर्न नरकादिरित्युच्यते---न-नहुषादीनां कर्मदर्शनात् । श्रूयते च शतक्रतोरपि वृत्रादिवधेन ब्रह्महत्याप्राप्तिर्योगाद्यनुष्ठानश्रवणं च ।

 यन्मनुष्याणां कर्माधिकार: इयं च कर्मभूमिरिति, तत्क्षिप्रफलसिद्ध्यपेक्षम् । तदुक्तम्-'[१]क्षिप्रे हि मानुषे लोके सिद्धिर्भवति कर्मजा” इति । व्यासेन कीटोपाख्यान(श्रव)स्मरणाच्च तिरश्चामपि कर्मोपपत्तिः ॥

 किञ्च-देहेन्द्रियादिमतः क्रियोपपत्तेः । क्रियाणां च कायवाङ्मनःप्रभवानां फलारम्भकत्वे, क्लेशपूर्वकत्वात् ।

 क्षीणक्लेशानामपि सम्यग्दर्शिनामपि नास्त्यदृष्टजन्मवेदनीयः कर्माशयः क्लेशाभावादेव। न हि वीतरागो जातो दृश्यते । क्लेशानां कर्मारम्भ इव कर्मफलारम्भेऽपि हेतुत्वात् । क्षीणक्लेशस्यापि ज्ञानप्राप्तेः प्रागारब्धो दृष्टजन्मवेदनीयः सम्भवति कर्माशयः प्रवृत्तफलत्वान्मुक्तशरवदिति ॥ १२ ॥

 किञ्च-सति मूले तद्विपाको जात्यायुर्भोगाः । मूलं हि कर्मणां क्लेशः । अस्मिन् सति मूले क्लेशेषु सत्स्वित्यर्थः । तस्य लोभक्रोधप्रभवस्य पुण्यापुण्यकर्माशयस्य विपाकः फलनिष्पत्तिः तद्विपाकः । किं पुनस्तत्फलमित्याह-- जात्यायुर्भोगाः

 भाष्यं 'सत्सु क्लेशेषु कर्माशयो विपाकारम्भी भवति नोच्छिन्नक्लेशमूल' इति, मूलस्य व्याख्यानम् । तत्र सत्सु क्लेशेषु कर्माशयो विपाकारम्भीत्यस्य दृष्टान्तमाह-यथा तुषावनद्धाः शालितण्डुला अदग्धबीजभावाः ॥


  1. भगवद्रीता 4. 12.