पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/187

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्



१४०
पातञ्जलयोगसूत्रभाष्यविवरणे

[ सूत्रम् ]

[१]दुःखानुजन्मा द्वेषः ॥ ८ ॥

[ भाष्यम् ]

दुःखाभिज्ञस्य दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा [२]यो मन्युः, उञ्जिहासा, क्रोधः, स द्वेषः ॥ ८ ॥

[ सूत्रम् ]

स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः ॥ ९ ॥

[ भाष्यम् ]

॥ सर्वस्य प्राणिन इयमात्माशीर्नित्या भवति '[३]मरणं माऽन्वभूवं, भूयासम्' इति । ॥

[ विवरणम् ]

{{gap}}दुःखानुजन्मा दुःखानुशयी द्वेषः । दुःखमुक्तम् '[४]येनाभिहताः प्राणिनस्तदपघाताय प्रयतन्ते' इति । दुःखाभिज्ञस्यति पूर्ववद्व्याख्यानम् । दुःखानुस्मृतिपूर्वो दुःखे तत्साधने वा सतस्करादौ यो मन्युरुञ्जिहासा उद्धातुमिच्छा क्रोधः स द्वेषः । रागेण तुल्यं व्याख्यानं सर्वम् ॥ ८ ॥

 स्वरसवाही विदुषोऽपि तथा रूढोऽभिनिवेशः स्वरसेन स्वभावेन चित्तस्याविद्यामात्रेण वोढुं प्रवर्तितुं शीलमस्य । वहतेरकर्मकस्यापि दर्शनात् यथा नदी वहतीति । अथवा स्वरसं स्वभावं वोढुं शीलमस्य स्वरसवाही विदुषोऽपि सम्यग्दर्शनस्यापि । अपिशब्दादविदुष एव युक्तो मरणत्रास आत्मोच्छेदमानिन इत्यभिप्रायः । सम्यग्दर्शनस्यात्मानुच्छेदमानिनोऽयुक्त इति । तथा विमूढतरबुद्धिष्वात्मोच्छेददर्शिष्वयमभिप्रायो मरणत्रासो रूढोऽभिनिविष्टः स्थिरो यथा तथैव विदुषोऽप्यात्मानुच्छेददर्शित्वादयुक्तोऽपि रूढः ॥


 कस्मात् पुनरयं मरणत्रासः स्वरसेनैव रूढ इति ? यतः सर्वस्य प्राणिनः इयमात्माशीर्नित्या भवति, यदसौ मरणं मान्वभूवम् उच्छेदं मा प्रापम् । इयमाशीर्वा, भूयासं गुणैः शुभात्मभिः सम्पत्सीयेति न तैर्वियोगो भूयादिति । मूढेषु भोगसम्पदामात्मनश्चानुच्छेदः प्रार्थनीयः ॥


  1. इदानीन्तनमुद्रितग्रन्थपाठस्तु 'दुःखानुशयी द्वेषः' इति ।
  2. इदानीन्तनमुद्रितभाष्यपाठस्तु 'यः प्रतिघो, मन्युः, जिघांसा, क्रोधः, स द्वेष' इति ।
  3. इदानीन्तनमुद्रितभाष्यग्रन्थपाठस्तु 'मा न भूवं, भूयासम्' इति ।
  4. यो. सू. पा. 1. सू. 31.