पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/173

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१२५
समाधिपादो द्वितिय:

 तेषां तनूकरणात्पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः सूक्ष्मा प्रज्ञा समाप्ताधिकारा प्रतिप्रसवाय कल्पिष्यत इति ॥ २ ॥

 अथ के ते क्लेशाः ? कियन्तो वा ? इति--

[ सूत्रम् ]

 

॥ अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३ ॥

[ विवरणम् ]

 तेषां तनूकरणानुजन्मा पुनः क्लेशैरपरामृष्टा सत्वपुरुषान्यतामात्रख्यातिः समाप्ताधिकारा प्रज्ञा प्रतिप्रसवाय [कल्पिष्यते] संसाराभिमुखतायै पुनर्न कल्पिष्यते ॥

 यद्यपि शास्त्राचार्योपदेशेन योगाङ्गानुष्ठानादृतेऽपि सत्वपुरुषान्यतामात्रख्यातिरुपजायते, तथाऽपि न क्लेशाधर्मादीनतीवातिरस्कृत्य सा जायेतेति पुनः पुनः क्लेशादिभिः परामृश्यत इत्येतद्दर्शयति पुनः क्लेशैरपरामृष्टेत्यनेन ॥ २ ॥

 के ते क्लेशाः स्वरूपेण, कियन्तो वा संख्यया इति संख्यास्वरूपप्रतिपादनार्थं सूत्रं प्रणीयते-- अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाःएषामेकैकस्य लक्षणं सूत्रैरेव व्याख्यायिष्यत इति [न] व्याख्येयत्वे यत्नः क्रियते, व्याख्येयं त्वेतावदेव ॥

 यथा प्रमाणविपर्ययविकल्पादयः परस्परभिन्नाः, न तथा क्लेशानां विपर्ययाद्भेदः । केिन्तर्हि ? विपर्ययस्यैवैते भेदा इति । कस्मात् ? विपर्ययभावभावित्वादित्येतदाह--पञ्च विपर्यया इत्यर्थः ॥

 ननु च यथा वृत्तिभेदव्याख्याने प्रमाणवृत्तेः "[१]प्रत्यक्षानुमानागमाः प्रमाणानि" इति त्रिधा भेदस्तत्रैव व्याख्यातः, तथा कस्मात्तत्रैवास्य विपर्ययस्यापि भेदः पञ्चधा नोपव्याख्यातः ? चित्तवृत्तिरेव च विपर्यय इत्युक्तम् । तथा चोदाहृतं, "सद्विषयेणैकचन्द्रदर्शनेन द्विचन्द्रदर्शनं बाध्यते इति ॥

  1. यो. सू. पा. 1. सू. 7.